SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org टम अध्यायः । विमानस्थानम् । १६२१ मानमिह तूपमेयमिति विपरीतम् । अन्यस्माद्वावृत्ते नियमोपमा यथा । स्तनौ faraneant स्थूल सुकठिनौ तव । न तु तालफलसमौ न पद्म कोरकोपमाविति काठिन्याभावात् । अन्यत्राप्यनुवृत्तेश्च भवेच्च नियमोपमा । यथाकमलेनैव तुल्यं ते मुखं तुल्यौ स्तनौ मम । इति नियमोपमा द्विधा । ० । असमुच्चयोपमा । समुच्चयोपमाऽतोऽन्य-धर्म्म बाहुल्यकीत्तनात् । स्तनावम्भोजसदृशौ मालूरफलसन्निभौ इति । ० । व्यतिरेकोपमा यथा । रहोधस्य साम्येऽपि वैलक्षण्यं विवक्षता । यदुच्यतेऽतिरिक्तलं व्यतिरेकोपमा तु सा । आहुर्मुख चन्द्रसममन्ये नाहं शशी क्षयात् इति || अथ बहूपमा । यत्रोपमा स्याद् बहुभिः सहसा बहूपमा । धर्माः प्रत्युपमानं चेदन्ये मालोपमैव सा । चन्दनोदकशीतांशु चन्द्रकान्तादिभिः समा । स्पर्शेन त्वं सरोजाक्षि वीणाकोकिलभाषिणि । इति बहूपमा || प्रत्युपमानं चेदन्ये धर्म्मीस्तदा सा मालोपमा । कुचौ लकुचसन्निभाः रुचिरविल्बतुल्यौ शुभौ सुदाड़िमफलाकृती ज्वलयतो मनः कामिनाम् इति || अथ विक्रियोपमा । उपमानविकारेण तुलना विक्रियोपमा । यथा । पक्कविम्बफलाभासावोष्ठौ ताम्बूलवर्ज्जितौ । इति 101 अथाद्भुतोपमा । त्रैकाल्यासम्भवि किमप्यारोप्य प्रतियोगिनि । कविनोपमीयते या प्रथ्यते साद्भुतोपमा । यथा - राकाचन्द्रमसो विधिः प्रतिदिनं कान्तां कलामुद्धरन्नैकैकां तव वक्तचावयवान् संघव्य संनिम्ममौ । इति ।। अथ मोहोपमा । प्रतियोगिन - मारोप्य तदभेदेन कीर्त्तनम् । उपमेयस्य सा मोहोपमाऽसौ भ्रान्तिमद्वचः । यथा - पूर्णचन्द्रानने पूर्ण चन्द्रं बुद्धा तवाननम् । चकोराः परिधावन्ति युवानः कामरूपिण इति । ० । अथ संशयोपमा । उभयोर्धर्म्मिणोस्तथ्यानिश्चयात् संशयोपमा । यथा - कर्णिकालग्नभृङ्गं किं चञ्चलेन्दीवरद्वयम् । किमीक्षणद्वयं लोलं तव वक्तसरोवरे । इति | ० | अथ निश्चयोपमा । उपमेयस्य संशय्य निश्चयान्निश्चयोपमा । यथा- पद्ममेव विधम्लानं फुल्लं कान्तोदये दिने । वितनोति तनोर्लक्ष्मी लीनभृङ्गयुगं मुखमिति || अथ वाक्यार्थोपमा । वाक्यार्थेनैव वाक्यार्थोपमाऽन्यस्योपमा मता । वाक्यार्थेनान्यस्योपमा वाक्यार्थोपमा । यथा - नैकस्मिन् कमले भृङ्ग-द्वयं पिबति माक्षिकम् । खञ्जरीटद्वयं नूनं नृत्यतीह- स्मितानने । इति । ० । अथात्मोपमा । स्वात्मनोपमात्मोपमा साधा I Acharya Shri Kailassagarsuri Gyanmandir air दण्डसंज्ञो विकार इति प्रत्येति । किंवा भट्टनयेन, प्रसिद्धं दण्डगतं साधम्र्यमप्रसिद्धदण्डकाख्यविकारसम्बन्धितया प्रत्येतीत्येवमन्यत्राप्युदाहरणे ज्ञेयम् । इष्वासिनेति इषुमोक्षकेण यथा इषुमोक्षकेण लक्ष्ये ऽनतिविप्रकृष्टे नापराध्यते, तथाऽरोग्यदेन वैद्य न वैद्यगुणैरातुरं साधयता ॥ ३७ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy