SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२० चरक-संहिता। । रोगभिषगजितीयं विमानम् विद्यते। यथा बलिवासवयोयु द्धं बलिवासवयोरिवेति। एवमनुमानेऽन्तभूतमपि विशेषान्तरमस्ति तदाह। तथेत्युपसंहारादुपमानसिद्ध विशेषः । इति । वादे प्रतिशास्थापनायां दृष्टान्ते तथेत्युपसंहारात् तथेति शब्देन समानधम्मोपसंहारादुपमानं सिध्यति नानुमानम्, अयञ्चानयोविशेष इति । गौतममतेन कपिलपतञ्जलिप्रभृतीनामुपमानस्यानुमानेऽन्तर्भावमतं न विरुद्धम् अभिप्रायभेदात प्रामाण्यन्तूपमानस्थ सर्वेषां सम्मतमिति । __ अथौपम्यमिदं न सादृश्यमात्रमग्निपुराणेऽग्निनार्थालङ्कारे प्रोक्तम्-सादृश्यं धम्मसामान्यमुपमा रूपकं तथा। सहोत्यर्थान्तरन्यासाविति स्यात् तच्चतुर्विधमिति। तच्च विदृतं तत्रैव। उपमा नाम सा या स्यादुपमानोपमेययोः। सद्भावान्तरसामान्य-योगित्वेऽपि विवक्षितम् । सद्भावान्तरसामान्याभावाद् यथा गौस्तथा गौरिति न स्यात्। स्यात् तु तव गौरिव मम गौरिति, तावकलमामकलसद्भावान्तरवस्वात्-किञ्चिदादाय सारूप्यं लोकयात्रा प्रवत्तते। समासेनासमासेन सा द्विधा प्रतियोगिनः । पतियोगिन उपमेयस्य समासेनासमासेन सा द्विधा। विग्रहादभिधानस्य स समासोऽन्यथोत्तरा। उपमाद्योतकपदेनोपमेयपदेन च। ताभ्याश्च विग्रहात् अधा सा समासान्तिमा त्रिधा इति । यथा चन्द्रतुल्यमुखमिति । उपमाद्योतकन पदेन सह समासः। चन्द्रेण समकान्ति तवाननमित्युपमेयेन सह समासः चन्द्रसमानकान्ति। इहोभाभ्यां सह समास इति त्रिधा। चन्द्रेण तुल्यं मुखमिति, चन्द्रतुल्यं मुखमिति, चन्द्रेण तुल्यमुखमिति द्वयोः समासखमसमासखश्च इति। अथ धर्मभेदेनोपमा चाष्टादशधा। विशेष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः। यत्र साधारणो धर्मः कथ्यते गम्यतेऽपि वा। ते धर्मवस्तुप्राधान्याधर्मयोस्तूपमे उभे। इति धर्मप्रधाना वस्तुप्रधाना चेति द्वे धम्मोपमे भवतः। सत्यं वचोऽमृतमिव । इति धम्मोपमा धर्मप्रधाना। राजीवमिव ते वक्तमिति वस्तुप्रधाना धम्मोपमा । । अथ परस्परोपमा । तुल्यमेवोपमीयेते यथान्योन्येन धर्मिणौ। परस्परोपमा सा स्यात् प्रसिद्धरन्यथा तयोः।. विपरीतोपमा यस्माद्वात्तनियमोपमा। अन्यत्राप्यनुवृत्तेस्तु भवेच्च नियमोपमा। तवाननमिवाम्भोजमम्भोजमिव ते मुखम्। इति परस्परोपमा । तवाननमिवोनिद्रमरविन्दमभूदिदमिति विपरीतोपमा। पद्म सर्वत्रोपउक्तं हि तत्र-“प्रसिद्धसाधात् साध्यसाधनमुपमानम्" इति। दण्डेन दण्डकस्येति दण्डेन प्रसिद्धनाप्रसिद्धस्य दण्डकस्य साधर्म्यमाप्तात् श्रुतवान् कुम्भकारकदण्डवद् विकारदर्शने सत्ययम् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy