SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] विमानस्थानम्। १६१६ उपमानमिति। प्रशातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति । यथा गोरेवं गवय इति। किं पुनरत्रोपमानेन क्रियते ? यदा खल्वयं गवा समानधम्म प्रतिपद्यते, तदा प्रत्यक्षतस्तमर्थ प्रतिपद्यत इति। समाख्यासम्बन्धपतिपत्तिरुपमानार्थ इत्याह, यथा गोरेवं गवय इत्युपमाने प्रयुक्त गवा समानधर्मम् अर्थमिन्द्रियार्थसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञे नि संज्ञासंशिसम्बन्ध प्रतिपद्यत इति। यथा मुद्गस्तथा मुद्गपर्णी, यथा मापस्तथा माषपर्णी इत्युपमाने प्रयुक्त उपमानात् संज्ञासंशिसम्बन्ध प्रतिपद्यमानस्तामोपधि भैषज्याय आहरति । एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति । ___ तत्राह वादी। अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिरिति, अत्यन्तसाधादुपमानं न सिधाति। न चैवं भवति यथा गोरेवं गौरिति । प्रायसाधादुपमानं न सिध्यति। न हि अवति यथानडानेवं महिप इति। एकदेशसाधादुपमानं न सिधयति । न हि सव्वेण सर्वमुपमीयते इति सर्वमेव हि खल्वेकदेशसाधर्म्ययुक्तं भवति सर्वत्र सर्वमुपमानं भवतु न हि तथा भवतीति, तस्मादुपमानासिद्धिरिति । तत्र सिद्धान्तमाह । प्रसिद्धसाधम्म्योदुपमानसिद्धः यथोक्तदोषानुपपत्तिरिति। न साध्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपमानं प्रवर्त्तते। किं तर्हि ? प्रसिद्धसाधात् साध्यसाधनभावमाश्रित्य प्रवर्तते । यत्र चैतदस्ति न तत्रोपमान प्रतिषेद्ध शक्यम्। तस्माद् यथोक्तदोषो नोपपद्यते इति। एवमुपमानसिद्धौ पुनराह वादी। अस्तु तहु अपमानं परन्तु तदनुमानं नातिरिक्तमिति। कस्मात् ? प्रत्यक्षेणाप्रत्यक्ष सिद्धेः। यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्न ग्रहणमनुमानमेवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणमिति नेदमनुमानाद्विशिष्यते। तत्राह सिद्धान्तम्। अनुमानाद्विशिष्यते उपमानं यया युक्त्या। नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति । यदा ह्ययमुपयुक्तोपमानो गोदर्शी गवयं समानमर्थ पश्यति तदायं गवय इत्यस्य संज्ञाशब्दस्य व्यवस्था प्रतिपद्यते। न चैवमनुमानमिति परार्थश्चोपमानम् । यस्य हुापमानमप्रसिद्धं तदर्थ प्रसिद्धोभयेन क्रियते इति। परार्थमुपमानमिति चेन स्वयमध्यवसायात् ? भवति च भोः स्वयमध्यवसायः। यथा गोरेवं गवय इति। नाध्यवसायः प्रतिषिध्यते। उपमाने तु तन्न भवति प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिति। न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनभावो उपमानं व्याख्येयम्, तदा सादृश्यं प्रतिपाद्यतया अधिकृत्येति योजनीयम्, तेषां 'सादृश्यप्रतिपत्तिः' उपमानार्थः । न्याय च 'संज्ञासंज्ञिसम्बन्धप्रतीतिः' उपमानफलम्, तच्च प्रथमव्याख्यानाद् भवति, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy