SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१६ चरक-संहिता। रोगभिपगजितीय विमानम् स्वयमुपलभ्यते। तत्रात्मप्रत्यक्षाः सुखदुःखेच्छा षादयः, शब्दादयस्त्विन्द्रियप्रत्यक्षाः ॥ ३४ ॥ कोऽपि नेन्द्रियाणामन्यतमो भावः स्वस्वार्थ प्रवर्तने प्रभवति, तेनात्मनः साधारणहेतुखेन हेतूपदेशे पायो नाचार्येणात्मा निर्दिश्यते, तस्मादत्रात्मशब्दोपादानेनात्मभववेऽपि बुद्धः सुखादीनाश्चात्मनैव प्रत्यक्षं न मानसप्रत्यक्षं मनसा जाताया बुद्धमेनोबुद्धिग्राह्यवाभावादात्मप्रत्यक्षमिति ज्ञापितम्। त्रिविधंरोगविशेषविज्ञानीयेऽप्यात्मना चेन्द्रियरित्युक्तेः। इन्द्रियैरिति श्रोत्रादिभिः पञ्चभिर्बुद्धीन्द्रियैबुद्धापदेशे तेषां हेतुलात् ; न तु कर्मेन्द्रियैः पञ्चभिः । परतन्त्रसिद्धमतीन्द्रियं मनश्चेन्द्रियमनुमतं न प्रतिषिद्धम् । तेन मनश्चेन्द्रियं स्वयं जागरितस्थानस्वप्नस्थानश्वात्मा। मनसा च युक्तः पञ्चभिः श्रोत्रादिभिः इन्द्रियंरात्मना यदुपलभ्यते तत् प्रत्यक्षं पड़विध मानसञ्चैन्द्रियकञ्च। तन्त्रेऽस्मिन् पञ्चेन्द्रियाणीत्यादि पञ्चपञ्चकमुक्तं प्रमाणभूतप्रत्यक्षाभिप्रायेण। परमतसिद्धश्चातीन्द्रियं सत्त्वसंज्ञकं मनोऽप्यप्रतिषेधात् अनुमतं मानसप्रत्यक्षम्। आत्मप्रत्यक्षञ्चेह प्रत्यक्षमात्रस्योपदेशार्थमुक्तं ततो न पूण विरोधः। विस्तरेण पूर्व व्याख्यातम् । तान्युदाहरति-तत्रात्मेत्यादि । आत्मप्रत्यक्षा इति प्रत्यगात्मप्रत्यक्षज्ञानविषयाः सुखादयः। शब्दादयः पट् शब्दस्पर्शरूपरसगन्धचिन्त्यानीति पुनरिन्द्रियप्रत्यक्षज्ञानविषया इति। स्वयम् आत्मा बुद्धग्रा युक्तेन स्वेन यदुपलभते तत् स्वप्रत्यक्षमात्मप्रत्यक्ष मनोयुक्तैरिन्द्रियैः यदुपलभतेतदिन्द्रियप्रत्यक्षं तत्रात्मा केवलेन मनसा यत्किञ्चिदुपलभते तन्मानसप्रत्यक्षमुच्यते। भ्रान्ता आत्मप्रत्यक्ष म विदन्ति । वैशेषिके च कणादेनोक्तम् । परत्र समवायात् प्रत्यक्षखाच नात्मगुणा मनसो गुणाः। अप्रत्यक्षखात् इति । आत्मगुणा बुद्धीच्छा पसुखदुःखप्रयत्नाः। परत्र समवायात् । परस्मिन् अव्यक्तात्मनि ज्ञे समवायात् प्रत्यगात्मनि जागरितस्थानादौ तदात्मगुणानां तेषामभिव्यक्तः प्रत्यगात्मजागरितस्थानादेः प्रत्यक्षखाच । न तु मनसो गुणाः । अप्रत्यक्षलात्। मनसः प्रत्यक्षाभावाद बुद्धादीनामिति । गौतमेनाप्युक्तं फलपरीक्षायाम् पीतेरामाश्रयवादप्रतिषेध इति । सूत्रमिदं वात्स्यायनेन व्याख्यातं प्रीतिरात्मप्रत्यक्षवादात्माश्रयेति ॥३४॥ वाह्य प्रत्यक्षं गृह्यते। स्वयमुपलभ्यत इति साक्षादपलभ्यते इति चेन्द्रियव्यापारे सत्यपि यदनुमानविज्ञानम्, तदसाक्षात्कारित्वान्न प्रत्यक्षमिति दर्शयति ॥ ३४ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy