________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्याय:
विमानस्थानम् ।
१६१७ अथानुमानम् । अनुमानं नाम तो युत्तयपेक्षः। यथोक्तम् अग्निं जरणशक्त्या, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दादिग्रहणेनेति ॥ ३५ ॥
अथैतिह्यम् । ऐतिह्य नाम आप्तोपदेशो वेदादिः॥ ३६॥ गङ्गाधरः--अत्रात्मप्रत्यक्षस्य तावन्मानसशानत्वे यदि प्रामाण्यं तहि किमेकमेव प्रत्यक्षं प्रमाणं, नान्तरेण मनो न किमपि ज्ञानमुत्पद्यते तत्रापि निर्देशार्थमिन्द्रियार्थसन्निकर्षजं पञ्चविधं शानमिति भेदकरणार्थमिन्द्रियार्थसन्निकर्षाधीनखज्ञापनार्थश्च पृथक् पञ्चविधं प्रत्यक्षमुक्तमित्याशयेन मानसेषु ज्ञानेषु यस्य यस्य प्रामाण्यं तदुपदेशार्थ मानसं पञ्चेन्द्रियशानं प्रत्यक्ष प्रमाणमुक्त्वा शेष यद यन्मानसं ज्ञानं प्रमाणं तत्तन्नामान्तरेणाह-अथानुमानम् । प्रत्यक्षानन्तरम् अनुमानं लोके भवति। तद् यथा। अनुमानं नामेत्यादि । युक्त्यपेक्षस्तों नाम युक्तिरेवानुमानं नामोच्यते। युक्तिः पूर्वमुक्ता। बुद्धिः पश्यति या भावान् बहुकारणयोगजान् । युक्ति स्त्रिकाला सा शे या त्रिवर्ग साध्यते ययेति। सैव युक्तिस्तके उक्तो गौतमेन। अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वशानार्थमूहस्तर्क इति। तथा च तापेक्षस्तोऽनुमानम्। तर्कस्यानुमानावान्तरीयकखादाप्तस्येव प्रामाण्यं न तु प्रमाणान्तरखमिति । व्याख्यातं विस्तरेण तिस्रषणीये। उदाहरति-यथेत्यादि। इहैव स्थाने पूर्वमुक्तं यथा अग्निं जरणशक्त्या बलं व्यायामशक्त्येत्येवमादि। इत्येवमनुमानमेकं मानसं प्रत्यक्षमानं प्रमाणम् ॥३५॥
गङ्गाधरः-तत्र कः पुनरग्निः का जरणशक्तिरित्येवमादिविज्ञानं नान्तरेणोपदेशं भवतीत्युक्तमैतिह्य मिति यत् तदाह-अथैतिह्य मिति । अनन्तरमै तिह्य वादप्रवृत्तौ ज्ञेयम् । किं पुनरैतिह्यमित्यत आह-ऐतिह्य नामाप्तोपदेशो वेदादिः। इहादिपदेन वेदार्थाविपरीतः परीक्षकैः प्रणीतः परीक्षकैश्च परीक्षितो यः कश्चिन्छास्त्रवादः सोऽप्याप्तोपदेशः। एवं लोकेऽपि यः कश्चित् पारम्पयोपदेशः सोऽप्याप्तोपदेशः। बालो यथा जानाति–एष ते पिता माता चैषा
चक्रपाणिः-तर्को युक्तापेक्ष इत्यनुमानलक्षणं विविधरोगविज्ञानीय एव व्याकृतम्। अनुमानोदाहरणमाह-'अग्निं जरणशक्तया' इत्यादिना। अलौकिकाप्तोपदेश 'ऐतिह्य'पदेनोच्यत इत्याह-वेदादिरिति ॥ ३५॥३६ ॥
For Private and Personal Use Only