________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
विमानस्थानम् ।
१६११ बहुवचनमन्यतरस्यामिति सम्पन्ना यवाः सम्पन्नो यव इत्याकृतिर्जात्याख्या प्रधानं जातिव्यक्ती तु अङ्गमिति। अथ कथं विज्ञायते नानाव्यक्त्याकृतिजातय इति ? लक्षणभेदात् । तत्र तावत् । व्यक्तिगुणविशेषाश्रयो मूत्तिः । व्यज्यत इति व्यक्तिः इन्द्रियग्राह्या, इति न सर्च द्रव्यं व्यक्तिमूर्त्यभावात् । यो गुणविशेषाणां गन्धरसरूपस्पर्शशब्दानां गुरुखलघुलादीनामव्यापिनश्च परिमाणस्याश्रयो यथासम्भवं तद् द्रव्यम्, मृत्तिः मूच्छितावयवत्वात्। एतेन द्रव्यगुणकर्मणां लिङ्गस्य च संग्रहः कृतः। तत्र कचिद् द्रव्यं प्रधानम्, यथा डित्थो देवदत्तः शिवो दंगेत्यादिः । कचिद् गुणः प्रधानम् । उतो गुणवचनात् स्त्रियां ङीप् । पट्टी पटुः, मृद्री मृदुः, गुर्वी गुरुः, लवी लघुरिति । कचित् कम्म प्रधानम् ; करिष्ठः पुमान्। कचित् लिङ्गं प्रधानम्, कोरकः पुमान्। स्त्रियामप्सरसः। अस्त्री पङ्कमित्येवमादिः। कचित् परिमाणं प्रधानम् ; द्रोणः पयसः, आढ़को वीहेरित्यादि। कचित् सङ्ख्या प्रधानम् ; द्वौ ब्राह्मणौ, ब्राह्मणानां पञ्च। कचित् कर्तादिकारकं प्रधानम् ; गां नयति गोपः, गोर्गच्छतीत्येवमादिः। कचित् शब्दस्य स्वरूपमपि पदार्थः । सान्तमहतोर्दी? नुमि, महानित्येवमादि।
अथाकृतिलक्षणमाह-आकृति तिलिङ्गाख्या। जातिलिङ्गे आख्यायेते यया सा जातिलिङ्गाख्या। यया जातिश्च जातिलिङ्गानि च प्रख्यायन्ते तामाकृति विद्यात् । सा च नानासत्त्वानां तदवयवानाञ्च नियताद् व्यूहादिति। नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम्। शिरसा पदेन गामनुमिन्वन्ति, नियते च सत्त्वावयवानां व्यूहे सति गोवं प्रख्यायते इति । अनाकृतिव्यङ्गवायां जाती मृत् सुवर्ण रजतमित्येवमादिष्वाकृतिनिवर्तते। जहाति पदार्थसमिति। समानप्रसवात्मिका जातिः। या समानां बुद्धिं जनयति भिन्नेष्वधिकरणेषु, यया बहूनीतरेतरतो न व्यावत्तन्ते, योऽथोऽनेकार्थप्रत्ययानुत्तिनिमित्तं तत् सामान्यम् ; यच्च केपाश्चिद् भेदं करोति तत् सामान्यविशेषो जातिरिति ।
अथ श्रुतिमभिव्यक्ति निरूप्याक्षपो नामाभिव्यक्तिनिरूप्यते। श्रुतेरलभ्यमानोऽयो यस्माद् भाति स चेतरः । य आक्षेपो ध्वनिः स्याच्च ध्वनिना व्यज्यते यतः। इति । श्रुतिनिरुक्ता या मुख्या नैमित्तिकी मुख्या पारिभाषिकी, औपचारिकी नैमित्तिकी औपचारिकी पारिभाषिकी, लाक्षणिकी गौणी च नैमित्तिकी लाक्षणिकी गौणी च पारिभाषिकी ; ततः श्रुतितोऽभिव्यक्तितो न लभ्यते योऽर्थः स श्रुतेरलभ्यमानोऽथौ यस्माद भाति प्रकाशते स तदर्थप्रकाशहेतुः श्रुतेरितर आक्षेपो नामाभिव्यक्तिर्भवति। सा व्यञ्जना नाम वृत्तिः, स
For Private and Personal Use Only