________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१०
चरक संहिता |
रोगभिपराजितीयं विमानम्
अयं पुरुषः कुलम्, अयं गोत्रमिति । इत्येवं व्यक्तौ 'तूपचारदर्शनाद् व्यक्तिः पदार्थः ।
तत्राह वादी - तत्रायं सहचरणाद् योगाद् वा जातिशब्दो व्यक्ताबुपचारात् प्रयुज्यते इति । तत्र चोत्तरमाह - यदि गौरित्यस्यार्थो न व्यक्तिरस्तु तहि आकृतिस्तदपेक्षयात् सत्त्वव्यवस्थानसिद्धेः । यदि व्यक्तिनस्तु पदार्थस्तर्हि चाकृतिः पदार्थः । कस्मात् ? तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः । सत्त्वावयवानां हस्तादीनां तदवयवानाश्च नियतो व्यूह आकृतिः । तस्यां गृह्यमाणायां सत्त्वस्य द्रव्यस्य व्यवस्थानं सिध्यति । इयं गौरयमश्व इति । नागृह्यमाणायाम् । यस्य ग्रहणात् सत्त्वव्यवस्थानं सिधाति, तं शब्दोऽभिधातुमर्हति सोऽस्यार्थः । नैतदुपपद्यते । यस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयते गौरिति । न चावयवव्यूहस्य जात्या योगः । कस्य तर्हि जात्या योगः ? नियतावयवस्य व्यूहस्य द्रव्यस्य जात्या योगः तस्मान्नाकृतिः पदार्थः । अस्तु तहिं जातिः पदार्थः । तत्राह - व्यक्त्याकृति - युक्ते मृद्भवकेऽपि जातिरस्ति सा किं तर्हि गोपदार्थ इति ? तत्राह । व्यक्तयाकृतियुक्तेऽयमसङ्गात् प्रोक्षणादीनां मृद्भवकेऽजातेः । जातिः पदार्थः । कस्मात् ? व्यक्त्याकृतियुक्तेऽपि मृद्भव के प्रोक्षणादीनामप्रसङ्गादिति । गां प्रोक्षय गामानय गां देहीत्येतानि न मृद्भवके प्रयुज्यन्ते । कस्मात् ? अजातेरिति जातेः अभावात् । अस्ति हि तत्र व्यक्तिरस्त्याकृतिर्यदभावात् तत्रासम्प्रत्ययः स पदार्थस्तस्माज्जातिः पदार्थ इति । तत्राह - नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तः । न जातिः पदार्थः । जातेाभिव्यक्तिराकृतिव्यक्ती अपेक्षते । नागृह्यमाणायामाकृतौ व्यक्तौ च शुद्धं जातिमात्रं गृह्यते । आकृतिग्रहणा हि जातिस्तस्मान्न जातिः पदार्थ इति । न वै चेदालु पदार्थेन भवितुं शक्यम् sahaniदान पदार्थ इत्यत आह- व्यक्ताकृतिजातयस्तु पदार्थः । तुशब्दt विशेषणार्थः । किं विशिष्यते ? प्रधानाङ्गभावस्यानियमेन पदार्थलम् इति । यदा हि भेदविवक्षा विशेषगतिश्च तदा प्रधानं व्यक्तिः, अङ्गन्तु जात्याकृती । यदा तु न भेदो विवक्षितः सामान्यगतिश्च तदा जातिः प्रधानमङ्गन्तु व्यक्त्याकृती स्वीकृते । तदेतद्बहुलं प्रयोगेषु । आकृतेस्तु प्रधानभाव उत्प्रेक्षितव्य इति । यथा सरूपाणामेकशेषे गावौ गाव इत्यादौ द्रव्यं प्रधानम जात्याकृती | जातिवचनात् स्त्रियां ङीप् ब्राह्मणी महिषीत्येवमादिः सामान्यगर्भेदाविवक्षया जातिः प्रधानमङ्गन्तु व्यक्त्याकृती । जात्याख्यायामेकस्मिन्
For Private and Personal Use Only