SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १६०६ नेदं वाक्यं जातेरभिधायकम् अभेदाद, भेदात् तु द्रव्याभिधायकम् । गवां समूह इति भेदाद द्रव्याभिधायकम्। न जातेरभेदात् । गोखनातिर्हि नानेका वैद्याय गां ददातीति द्रव्यस्य त्यागो न जातेरमूर्त्तवात् प्रतिक्रमानुक्रमानुपपत्तेश्च । दाने ग्रहीतुर्यः क्रमः स प्रतिक्रमः, दातुर्यो दानेतिकर्तव्यताक्रमः सोऽनुक्रमः । परिग्रहः स्वत्वेनाभिसम्बन्धः। कौण्डिन्यस्य गौाह्मणस्य गौरिति । द्रव्याभिधाने द्रव्यभेदात् सम्बन्धभेदः । कौण्डिन्यस्य या गौाह्मणस्यान्यस्यापरा गौन सा गौरिति परिग्रहे भवत्युपपन्नः। जातिस्वभिन्ना। या कौण्डिन्यस्य गौः सान्यस्य ब्राह्मणस्य गौरिति। सङ्ख्या दश गावो विंशतिर्गाव इति भिन्नं द्रव्यं सङ्खयायते न जातिरभेदादिति। वृद्धिः कारणतो द्रव्यस्योपचयः। अवर्द्धत गौरिति । निरवयवा तु जातिन वर्द्धते। एतेनापचयो व्याख्यातः। वर्णः शुक्ला गौः कपिला गौरिति, द्रव्यस्य गुणयोगो न सामान्यस्य जातेः। समासः गोहितं गोसुखमिति द्रव्यस्य हितसुखादियोगो न जातेरिति। अनुवन्धः सरूपप्रजननसन्तानः। गौगों जनयतीति तदुत्पत्तिधर्माबाद द्रव्ये युक्त न जातो विपर्ययादिति। द्रव्यं व्यक्तिरिति ह्यनर्थान्तरम् । अस्य प्रतिषेधः । न तदनवस्थानात्। न व्यक्तिः पदार्थः। कस्मात् ? अनवस्थानात्। याशब्दप्रभृतिभिर्यो विशिष्यते स गोपदार्थः। या गौस्तिष्ठति या निषण्णेति न द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधीयते। किं तहि ? जातिविशिष्टं, तस्मान्न व्यक्तिः पदार्थः। एवं समूहादिषु द्रष्टव्यम् ।। यदि न व्यक्तिः पदार्थः, कथं तहि व्यक्तावुपचारः इति। निमित्तादतद्भावे तदुपचारो दृश्यते खलु । सहचरणस्थानतादर्थ्यतृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणपुरुषवीरणराजसक्तचन्दनदेशशाटकानपुरुषेष्वतद्भावेऽपि तदुपचारः। अतभावेऽपि तदुपचार इति, अतच्छब्दस्य तेन शब्देनाभिधानमिति। सहचरणात् । यष्टिका भोजयेति यष्टिकासहचरितो ब्राह्मणोऽभिधीयते । स्थानात् । मश्वाः क्रोशन्तीति मश्वस्थाः पुरुषा अभिधीयन्ते। तादात् । कटार्थ व्यूह्यमानेषु वीरणेषु कटं करोतीति। वृत्तात्। यमो राजा कुवेरो राजेति तद्वद् वर्त्तते इति राजशब्दे राजवद्वत्तोऽभिधीयते। मानात्। आढ़केन मिताः सक्तव इत्याढकसक्तवः । धारणात् । तुलया धृतं चन्दनं तुलाचन्दनमिति। सामीप्यात्। गङ्गायां गावश्चरन्तीति देशोऽभिधीयते सन्निकृष्ट इति। योगात् । कृष्णेन रागेण युक्तः शाटकः कृष्ण इति । साधनात् । अन्नं प्राणा इति । आधिपत्यात् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy