SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६०८ चरक-संहिता। रोगभिषजितीयं विमानम् लक्षणां विभजते। अभिधेयेन सम्बन्धात् सामीप्यात् समवायतः । वैपरीत्यात् क्रियायोगाल्लक्षणा पश्चधा मता। इति । अभिधेयेन सम्बन्धादेका लक्षणा-कुन्ताः प्रविशन्ति, पुण्यतम आयुर्वेदः। अभिधेयेन सामीप्याद् द्वितीया लक्षणा–नयां ग्रामः, गङ्गायां घोषः। समवायतस्तृतीया-इमाः क्षत्रियजातयो दृषलत्वं गताः। इति। क्षत्रियजातिशब्दस्य तज्जातिमाक्तिषु लक्षणा। तच्छ्तः शश इति वैपरीत्यात् । असमवायतः यथा-मधुरो गुरुः स्निग्धः शीतश्च । मधुरे स्निग्धवादीनामसमवायात्। मधुरद्रव्ये लक्षणा चतुर्थी। क्रियायोगात् स्वाभिधेयाविनाभूतार्थप्रतीतिहेतुः पञ्चमी लक्षणा। अम्लो रुचिकृत, रुचिजननक्रियायोगादम्लशब्दस्याम्लद्रव्ये लक्षणेति। समवायस्य सम्बन्धरूपत्वेऽपि पृथग्वचनं तद्व परीत्याल्लक्षणाकरणार्थ सम्बन्धसामान्यवैपरीत्याल्लक्षणाप्रतिषेधार्थञ्चेति । तेनाभिधेयार्थसम्बन्धादेव ये लक्षणां वदन्ति तनिरस्तम् । .. लक्षणां विभज्य गौणी विभजते। गोणी गुणानामानन्त्यादनन्ता तद्विवक्षया। गौणी नामोपचारिकी नैमित्तिकपारिभाषिकाविनाभूतार्थप्रतीतिहेतुरनन्ता गुणानामानन्त्यात्। तत्तद्गुणविवक्षया . तत्तद्गौणी नामौपचारिकी। यथाग्निर्माणवक इत्यग्निवज्योतिष्मत्त्वादग्निः, पुरुषः सिंह इति सिंहवाद्विक्रमगुणवत्त्वात् सिंहः, पुरुषोऽयं गईभ इति गद्देभवदल्पबुद्धग्रादिगुणयोगाद गर्दभ इत्येवमादिः। अस्य संशान्तरमाह-अन्यधर्मस्ततोऽन्यत्र लोके साम्यानुरोधिना। सम्यगाधीयते यत्र स समाधिरिति स्मृतः। इति। अन्यस्यैकस्य धम्मौ यत् ततोऽन्यत्र यत्र लोके साम्यानुरोधिना पुसा सम्यगाधीयते स समाधिरुच्यते। अग्निर्माणवक इत्यग्निगुणसमाधानान्माणवकः समाधिरिति । अथात्र जिज्ञास्यम् ।-जातिनिमित्तेन यया धृत्यार्थ शब्दः प्रवर्तत सा श्रुतिर्ने मित्तिकीति, यथा गौरिति यदुक्तं तत्र कः पुनगौपदाथः ? किं गोवं गवाकृतिर्वा गोव्यक्तिर्वेति संशयान आहयत तद् गौतमेनोक्तम् । तदर्थे व्यक्तयाकृतिजातिसनिधावुपचारात् संशय इति । व्याख्यातं वात्स्यायनेन।-अविनाभाववृत्तिः सनिधिः। अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गोरिति प्रयुज्यते। तत्र न ज्ञायतेऽन्यसमः पदार्थः किम्, उस सर्च इति। शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणम् । तस्मात्-या-शब्दसमूहत्यागपरिग्रह-सह्याद्धापचयापचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः। व्यक्तिः पदार्थः। कस्मात् ? याशब्दप्रभृतीनां व्यक्तावुपचारात् उपचारतः प्रयोगः। या गौस्तिष्ठति या गौनिषाणेति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy