________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१६०७ . शब्दस्य जातौ कस्यचिद् गुणे कस्यचित् क्रियायां प्रसिद्धप्रहत्तेर्जातिशब्दो गौरित्यादिः, गुणशब्दो नील इत्यादिः, क्रियाशब्दश्चल इत्यादिः। पारिभाषिकीमाह-सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी। नामकृद्भिः कृतः सङ्केतः परिभाषा। इत्यतः परिभाषया शब्दस्य प्रवृत्तिः पारिभाषिकी नाम श्रुतिः। यथा शिवदुर्गाह रिप्रभृतिषु शिवादयः शब्दाः यदृच्छासङ्केताद यादृच्छिका इति ।
पातञ्जलभाष्ये चोक्तम् । जातिशब्दो गुणशब्दः क्रियाशब्दो यदृच्छाशब्दश्चतुर्थः। गौः शुक्लश्चलो डित्थ इति शब्दानां चतुष्टयी प्रवृत्तिरिति । सतस्तु द्विविधः-प्राक् प्रसिद्ध आधुनिकश्च। पित्रादिभिर्नामकरणं शास्त्रकारेण संशाकरणं प्रसिद्धः शिवादिः। ते द्वे विभजते । मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा। इति। मुख्या चौपचारिकी चेति सा श्रुतिः पुनद्विधा। सा च नैमित्तिकी सा च पारिभाषिकी द्विधा द्विधा भवति। मुख्या चौपचारिकी चेति। मुख्या नैमित्तिकी औपचारिकी नैमित्तिकी, मुख्या पारिभाषिकी औपचारिकी च पारिभाषिकीति। मुख्या प्रसिद्धा, यस्य योऽर्थः तस्यैवाभियोच्यते। इति। लोके वेदे च यस्य योऽर्थस्तस्य तस्मिन्नर्थेऽभिधानाम श्रुतिर्मुख्या प्रसिद्धा। यथा गौः शुक्लश्चल इत्यादिः। नैमित्तिकी। शिक्दुगोदिः पारिभाषिकी च इति मुख्या।
अथौपचारिकी लक्षयति। स्वाभिधेयस्खलदत्तिरमुख्यार्थस्य वाचकः । यया शब्दो निमित्तेन केनचित् सौपचारिकीति। शब्दः केनचिनिमित्तेन स्वाभिधेयादर्थात् स्खलन्ती वृत्तिर्यस्य स स्वाभिधेयस्खलवृत्तिः सन् अमुख्यार्थस्य वाचको यया श्रुत्या स्यात् सा श्रुतिः औपचारिकी नैमित्तिकी पारिभाषिकी च। नैमित्तिकी यथा। नदीषु वसतां श्रेष्ठो गगावासी नरः स्मृतः। गङ्गावासीति गङ्गासमीपे वासी लक्षणात्र पारिभाषिकी। गौमहिपीति गौणी नैमित्तिकी, यमुना गङ्गा गङ्गेवेति पारिभाषिकी गौणीति द्विधा औपचारिकी। औपचारिकी विभजते । सा च लाक्षणिकी गौणी लक्षणागुणयोगतः । इति। सा नैमित्तिकी पारिभाषिकी चौपचारिकी द्विधा, लाक्षणिकी च गौणी च। तत्र लाक्षणिकी लक्षणायोगतः, गौणी गुणयोगतः स्यात् । तत्र लक्षणां लक्षयति। अभिधेयाविनाभूत-प्रतीतिलेक्षणोच्यते । अभिधेयोऽभिधया योऽर्थः शब्दनाभिधीयते तस्याभिधेयस्याथेस्याविनाभूतस्तदर्थस्यापरित्यागेनामुख्यो योऽर्थस्तस्य प्रतीतिर्यया स्यात् सा लक्षणोच्यते इति। तत्राभिधेयार्थाविनाभावो यथा स्यात् तद्वचनेन
For Private and Personal Use Only