________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०६
चरक-संहिता। रोगभिषगजितीयं विमानम् व्यक्तिरुच्यते। तस्या अभिव्यक्तः द्वौ भेदौ श्रुतिराक्षेप इत्यपि। तत्र तयोर्मध्ये श्रुतिर्नामाभिव्यक्तिः शाब्दं शब्दकृतं स्वस्यार्थस्य समर्पणमुच्यते । शब्देन योऽर्थः समर्प्यते तदर्थसमर्पणं श्रुतिर्नामाभिव्यक्तिरुच्यते । तत्-श्रुतिग्रहस्तु व्याकरणादिभ्यः स्यात् । तदुक्तम् । शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः । इति। तत्र नानाश्रुतीनामर्थभेदग्रहणमर्यादिभ्यो भवति । तदुक्तम् । अर्थात् प्रकरणाल्लिङ्गात् औचित्याद देशकालतः। शब्दार्थास्तु विभिद्यन्ते न रूपादेव केवलमिति । शब्दानां शक्तिर्व्याकरणाद गृह्यते। डु पच ए पाके। पचेः पाके श्रुतिः। लः कर्मणि च भावे चाकर्मकेभ्य इत्यादिना तिङां कत्तेरि कर्माणि भावे च श्रुविः तद्विशेषग्रहणं शपश्यनादि-यगादिभ्यः स्यादिति ।। उपमानात् । गौरिव गवय इति गोसादृश्यात् गवयज्ञानम् ।। कोषात्। अस्त्री पङ्क पुमान् पाप्मा पापं किल्विषकल्मषमित्यादि ।०। आप्तवाक्यादाप्तवचनात् । लोके यथायं घटोऽयं पट इत्येवमादिः ।। व्यवहारतस्तु। यवशब्देन याशिका याशिकदेशे शूकधान्य विशेष व्यवहरन्ति। म्लेच्छाः कङ्गम् ।। वाक्यशेषात् । विभक्त्यन्तं पदमिति वाक्ये विभक्तिशब्दस्य सुपतिविभक्तिरिति शेषवचनात् ।। विवृतेयथा । इहब श्रुतिस्तत्र शाब्दं स्वार्थसमर्पणमिति, तस्मान्नेह श्रुतिर्वेदः ।। सिद्धपदसान्निध्यात्। रामलक्ष्मणौ पश्येति लक्ष्मणसानिध्याद दाशरथौ रामशब्दग्रहः । रामकृष्णौ पश्येति कृष्णपदसान्निध्याद वासुदेवे रामशब्दग्रहः। इति । तथा शब्दार्थसंशये विशेषो गृह्यतेऽर्थात् ।। द्रव्याणां शक्तिरित्यत्रार्थात् सामर्थ्य न तु शक्तिर्देवता ।। प्रकरणात्। रामायणे रामशब्दो दाशरथौ ।। लिङ्गात् । मित्रं नास्ति ममात्र तु । इह क्लीवाद बान्धवे, मित्रो भातीति पुंलिङ्गात् मूर्ये ।। औचित्यात् । कृष्णो नमति देवकीमित्यत्र वासुदेवे कृष्णशब्दो न पाराशये ।। देशाद् यथा। गर्ने रौति हरिरिति भेके हरिशब्दः ।। कालतः। वर्षासु रौति हरिः इति भेके हरिशब्दग्रहः। इति ।
तां श्रति विभजते-भवेन्नैमित्तिकी पारि-भाषिकी द्विविधैव सा। इति । निमित्तेन विशिष्ट श्रुतिनैमित्तिकी, परिभाषया श्रतिः पारिभाषिकी, इति द्विधा श्रुतिः। तत्र निमित्तमाह-निमित्तं त्रिविधं तत्र स्यात् तु जातिगुणः क्रियेति । जातिः गुणश्च क्रिया चेति त्रिविधं शब्दार्थश्रुतौ निमित्तम् । प्राक्सर्गे यस्य वस्तुनो यन्नाम परमेश्वरेण बुद्धिशक्त्याध्यवस्य यदृच्छया शक्त्या नियमितम्, तत्र तत्र वस्तुनि तस्य तस्य शब्दरय प्रवृत्ति निमित्तं प्रसिद्धमिति। तच्च कस्यचित्
For Private and Personal Use Only