SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम्। १६०५ पदानां सर्वेषामथान्वयं योग्यतयावधाय्य सव्वार्थानामेकपिण्डेन बोधो वाक्याद् भवति। तत्रान्वयो द्विविधः। प्रयोक्तरन्विताथपदप्रयोगे कर्तव्येऽन्वितार्थाभिधानं पदानां वाक्यार्थबोद्धः पदाभिहितार्थान्वय इति। वाक्यश्च उक्तम्, संक्षेपाद वाक्यमिष्टार्थ-व्यवच्छिन्ना पदावलीति । इष्टो ह्यथैः स भवति नानार्थानां योऽथों विवक्षितो यावद्भिः पदानामर्थश्च समाप्यतेऽभीष्टार्थशापनं तदिष्टार्थेन व्यवच्छिद्यते भिद्यते या पदानामावलिः स इष्टार्थव्यवच्छिन्ना पदावलिर्वाक्यं सङ्घ पात् सामान्याद्भवति। तस्य वाक्यस्य तद्वाक्यावयवानां पदानां तत्तत्पदावयवानाच धातुप्रातिपदिकप्रत्ययानामाभिधाने सामर्थ्यमुक्तमग्निपुराणेऽलङ्कारप्रकरणेऽग्निना वशिष्ठाय। तद् यथा शब्दार्थोभयालकारेषु प्रशस्तिकान्त्यौचित्यसंक्षेपयावदर्थताभिव्यक्तिभेदेन षड़ विधेषु मध्येऽभिव्यक्ति म योऽलङ्कारस्तल्लक्षणमुक्तम्। प्रकटखमभिव्यक्तिः श्रुतिराक्षेप इत्यपि। नस्या भेदौ श्रुतिस्तत्र शाब्दं स्वार्थसमर्पणम्। भवेन्नैमित्तिकी पारि-भाषिकी द्विविधैव सा। निमित्तं त्रिविधं तत्र स्यात् तु जातिगुणः क्रिया। सङ्कतः परिभाषेति ततः स्यात् पारिभाषिकी। मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा। स्वाभिधेयस्खलढत्तिरमुख्यार्थस्य वाचकः । यया शब्दो निमित्तेन केनचित् सौपचारिकी। सा च लाक्षणिकी गौणी लक्षणागुणयोगतः। अभिधेयाविनाभूत-प्रतीतिलेक्षणोच्यते। अभिधेयेन सम्बन्धात् सामीप्यात् समवायतः। वैपरीत्यात् क्रियायोगाल्लक्षणा पञ्चधा मता। गौणी गुणानामानन्त्यादनन्ता तद्विवक्षया। अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना। सम्यगाधीयते यत्र स समाधिरिह स्मृतः। श्रुतेरलभ्यमानोऽयो यस्माद्भाति सचेतनः। स आक्षेपो ध्वनिः स्याच ध्वनिना व्यज्यते यतः। शब्देनार्थेन यत्रार्थः कृला स्वयमुपार्जनम्। प्रतिषेध इवेष्टस्य यो विशेषोऽभिधित्सया। तमाक्षेपं ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः । अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः। यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणम् । सा समासोक्तिरुदिता सङ्ख पार्थतया बुधैः । अपह्न तिरपह्न त्य किश्चिदन्यार्थसूचनम्। पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते। एषामेकत्र संशा च समाख्या ध्वनिरित्यतः। इति । व्याख्यातञ्चैतत् सर्च तिस्रषणीये सङ्क्ष पेण पुनरिह विस्तरेण व्याख्यायते । तद यथा-प्रकटलमभिव्यक्तिः श्रुतिराक्षप इत्याप। तस्या भदो श्रुतिस्तत्र शान्दं स्वाथसमर्पणमिति । प्रकटत्वं स्फुटखमर्थस्य प्रव्यक्तीकरणसामथ्र्यमभि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy