________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०४
चरक संहिता |
| रोगभिषग्जितीयं विमानम्
व्यवस्थितः । नियतत्वान्नियम इति भवति । एवं सत्यनियमो नास्ति । तत्र यदुक्तं प्रकृत्यनियमादित्ययुक्तमिति । नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः । नियम इत्यत्राभ्यनुज्ञा । अनियम इति तस्य प्रतिषेधः । अनुज्ञातनिषिद्धयोश्च व्याघातादनर्थान्तरत्वं न भवति । अनियमच नियतखात् नियमो न भवतीति । यदेवं परिणामात् काय्र्यकारणभावाद्वा वर्णविकारोपपत्तिर्भवति तर्हि किं स्थान्यादेशाभावात् प्रयोगे विकारशब्दप्रयोग इति सच भिद्यते । गुणान्तरापत्युपमद्देहासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः । गुणान्तरापत्तिरुदात्तस्यानुदात्त इत्येवमादिः उपमर्दों नाम एकरूपनिवृत्तौ रूपान्तरोत्पत्तिः, हासो दीर्घस्य ह्रस्वः, वृद्धिर्हस्वस्य दीर्घः, गुणवृद्धिप्लता वा तयोः, लेशो लाघवम्, अस्तेः स्त इति, श्लेष आगमः प्रकृतेः प्रत्ययस्य वा । एत एव विशेषा विकाराः, एत एवादेशा इति । एते चेद्विकारा उपपद्यन्ते तर्हि वर्णविकारा इति । ते विभक्त्यन्ताः पदम् । यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति । विभक्तिद्वेयी सुप् च तिङ् च । सुप्नामिकी तिङाख्यातिकी । उपनिपाताव्ययास्तनि पदसंशाः स्युः १ नैवम्, अव्ययाल्लोप इति शिष्यते । पदसंज्ञाप्रयोजनं पदेनार्थसम्प्रत्ययः । ननु धातुनाम्नां प्रत्यययोगेन पदं भवति तेन एकेन पदेन कथमर्थसम्प्रत्ययो भवति, धातुनामप्रत्ययेभ्य एवार्थसम्प्रत्ययो भवति । यथा पचतीति पदम् । तत्र डुपचष् पाके लः कत्तेरीति । वत्तेमाने लड़िति लटस्तिप् । नाम्नि प्रथमो युष्मदि मध्यमोऽम्मदुत्तम इति, एकस्मिन् एकवचनमिति नाम्न्येकस्मिन्नेकवचनं तिप् । तथा च एकाश्रयो वर्त्तमानः पाक इति पचतीति पदार्थो न भवति, पचेः पाकार्थस्तिप् एकार्थो नाम योगी धातुयोगी तु वर्त्तमानोऽर्थः इति । वर्ण एवार्थस्फोट इति चेन्न । न ह्यन्तरेण पदावयवभाव प्रकृतिप्रत्ययौ मिथोऽन्वयमा पदे ते न चानापन्नान्वयौ स्वस्वार्थ सम्प्रत्याययतः । सर्व्वादेशाश्च वमसादयो न प्रकृतिप्रत्ययविभागनिर्देशाः सन्ति । तस्मात् पदमेवार्थस्फोट इति । नैवं पदमपि नान्तरेण वाक्यावयवभावं सम्पूर्णार्थ प्रत्याययति नान्तरेण च पदान्तरार्थसान्निध्यं सम्पूर्णार्थप्रत्यायने मिथोऽन्वयमापद्यते । न च पचतेऽयं ब्रूतेऽसावित्यादिषु यमिति साविति च पदम् । तत्र इदमदसोरर्थसम्प्रत्ययेनान्तरेण विहितसंहिताप्रतिसन्धानं पदशानं भवति न च वाक्यज्ञानमन्तरेण तथाविधपदशानं भवतीति वाक्यमेवार्थ - स्फोटः । तद्धि परस्परमन्वितानां स्वावयवभूतानां पदानामर्थसमुदायं स्फोटयति वर्णानामानुपूर्व्या वाक्यस्य श्रवणेन तदवयवस्मृत्या तत्तदवयवार्थबोधात् ततः
;
For Private and Personal Use Only