________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः !
विमानस्थानम् ।
१६०३
,
वात् तद्धम्मैविकल्पाच्च नित्यानां सव्वषामतीन्द्रियत्वात् । तत्र सव्वषां नित्यानाम् अतीन्द्रियत्वेऽपि द्वौ धम्मौ विकल्प्येते, परिणामी चैकोऽशोऽपरिणामी चारोऽशस्तयोः अपरिणामी योऽशः स मुख्यः, परिणामी तु योऽशस्तदंगे कारणतः प्रव्यक्तः सन् कार्य्य रूपेण जायते स तस्य विकारः । अन्यथा सन्नित्यमद्रव्यवत् कार्य्यं कारण सामान्य विशेषवदिति द्रव्यगुणकर्मणामविशेषः कथमुपपद्यते, यन्नित्यं तत् कथं कारण' स्यात् ? परिणाम्यंशो यदि न वत्र्त्तते परिणम्य हि कार्यमारभते । द्रव्यगुणयोः सजातीयारम्भकत्वञ्च कथं स्यात् ? आकाशः आकाशान्तरमारभते तथात्मात्मानं कालः कालान्तरं दिदिगन्तरं मनो मनोऽन्तरमिति । तस्मादेवं परिणामापरिणामौ द्वौ धम्र्मो विकल्प्येते । तद्विकल्पान्न दोषः । अन्यथाविकल्पे तु दोषः स्यात् । तद् यथा । नित्यं किञ्चिदतीन्द्रियं किञ्चिदैन्द्रियकम् । किञ्चिद्विक्रियते किञ्चिन्न विक्रियते, इत्येवं विकल्पो विरुद्धो वाभासो भवति । ऐन्द्रियकं चेन्नित्यं स्याद्विकारो न स्याद् विकारश्चेन्नित्यं न स्यादिति । तस्मान्नैवं विकल्प्यते ।
अनित्यत्वपक्षे तु समाधीयते । अनवस्थायित्वे वर्णोपलब्धिवद्विकारोपपत्तिः । perstaस्थायिनां वर्णानां श्रवण भवति, एवमेषां विकारो भवति । इत्यसम्बन्धादसमर्था । अर्थप्रतिपादिका वर्णोपलब्धिः न विकारेण सम्बन्धाद समर्था, या गृह्यमाणा वर्ण विकारमुपपादयेदिति । तत्र यादृगियं गन्धगुणा पृथिवी एवं शब्दस्पर्शादिगुणापि । ताहमेतद्भवतीति । न च वर्णोपलब्धिर्वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निवर्त्तिका योऽयमिवर्ण निवृत्तौ यकारस्य प्रयोगः यद्ययं वर्णोपला निवर्त्तते तदा तत्रोपलभ्यमान इवर्णो यत्वमापद्यत इति गृह्यते । तस्माद्वर्णोपलब्धिहेतुर्वर्णविकारस्येति । तत्राह - विकारधर्मित्वे नित्यलाभावात् कालान्तरे विकारोपपत्तेश्च अप्रतिषेधः । तद्धम्मै विकल्पादिति न युक्तः प्रतिषेधः । न खलु विकारधर्मकं किञ्चिन्नित्यमुपलभ्यते । इति वर्णोपलब्धिवत इति न युक्तः प्रतिषेधः । वर्णविघाते हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्यत्रेति चिरनिवृत्ते चायमिवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते । कारणाभावात् कार्य्याभाव इत्यनुयोगः प्रसज्यते इति । इतश्च वर्णविकारानुपपत्तिः । प्रकृत्यनियमाद्वर्ण विकाराणाम् । वर्ण विकाराभावप्रतिषेधो न युक्तः । वर्णविकाराणां प्रकृत्यनियमात् । इकारस्थाने यकारः श्रूयते यकारस्थाने चेकारो विधीयते। दृष्टो हि विकारधर्मित्वे प्रकृतिनियमः । अनियमे नियमान्नानियमः । योऽयं प्रकृतेरनियम उक्तः स नियतो यथाविषयं
For Private and Personal Use Only