________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०२
चरक संहिता |
[ रोगभिषग्जितीयं विमानम्
यथा सुवर्ण कुण्डलं भवति मृत्तिका घटो भवति, न तथा विकारो यकारो कारो वा इकारः । तदात्मान्वयाभावात् । विकाराभावे हेत्वन्तरञ्चाह । विकारप्राप्तानामपुनरावृत्तेः । न वर्णविकाराः सन्ति विकारप्राप्तानाम् अपुनरावृत्तेः । यथा काष्ठस्य भस्मले पुनर्न काष्टरूपेणावृत्तिरिकारस्य यत्वे पुनयेकारस्येत्वं दृश्यते । दध्यत्र विव्यथे अथैषः । सुवर्णादीनां पुनरावृत्तेरहेतुः । विकारमाप्तानाम् अपुनरावृत्तेरिति हेतुरहेतुः । सुवर्णादीनां पुनरावृत्तेः । कटकः सुवर्णात्मकः कुण्डलं जायते कुण्डलत्वं विहाय पुनः कटकत्वं प्राप्नोति । कथं पुनरावृत्तिः ? तद्विकाराणां सुवर्णभावाव्यतिरेकात् । सुवर्णादीनां विकाराणां सुवर्णभावेनैव प्रकृत्यनुच्छेदेनेव विकारमाप्तानां पुनः आवृत्तेः । विकारप्राप्तानामपुनरावृत्तेरिति हेतुरहेतुः । नन्ववस्थितं सुवर्ण हीयमानेन कुण्डलत्वेन चोपजायमानेन च धम्मेण धर्मि भवति । नैवं कश्चिद्वर्ण इति । तस्मात् सुवर्णदृष्टान्तो नोपपद्यते । तत्राह विकारवादी । वर्ण खाव्यतिरेकाद् वर्णविकाराणामप्रतिषेधः । वर्णत्वेनावस्थित इकारादिः हीयमानेन खलु इकारत्वम्मेणोपजायमानेन च यत्वम्मेण धम्र्मी भवति, तस्माद्वर्ण विकाराः सन्ति न तेषां प्रतिषेधः । तत्राह प्रतिषेधवादी । सामान्यवतो धर्म्मयोगो न सामान्यस्य । सुवर्णख सामान्यवतो हि सुवर्णस्य कुण्डल कटकवयोगो न सुवर्णत्वस्य सामान्यस्य । न तथा वर्णख सामान्यवतो वर्णस्य निखिलस्य इकारत्वयकारत्वधर्म्मयोगः । न वा वर्णत्वस्य सामान्यस्य तद्धर्म्मयोग इति न वर्णविकाराः सन्ति । इतश्च वर्णविकारानुपपत्तिः । नित्यखे विकारात् अनित्यत्वे चानवस्थानात् नित्या वर्णा इति पक्षे इकारयकारौ वणौ तदुभयो-' नित्यत्वे विकारानुपपत्तिरनित्यत्वे च विनाशित्वात् कः कस्य विकार इति । अनित्या वर्णा इति पक्षेऽनवस्थानं वर्णानाम् । स चोत्पत्तिनिरोधः । उत्पद्यनिरुद्धे विकारे यकार उत्पद्यते । यकारे चोत्पद्यनिरुद्धे इकार उत्पद्यते । इति कः कस्य विकारः ? तदेतदवगृह्य सन्धाने सन्धाय चावग्रहे क्षयमिति । नास्ति च सुवर्णस्य स्वरूपं किमपि रूपं यद्रूपं सदुत्पद्यते तदेव विकारभूतं तदेव कटकः स्यात् कटकः पुनः कुण्डलं कुण्डलं पुनः कटक इति । एवं वर्णेऽपि स्वरूपं किमपि रूपं नास्ति यदिकारादिरूपेणोत्पद्यते स च विकारभूतस्तस्य विकारो कारस्तस्य पुनरिकार इति समाधिः । नित्यत्वपक्षे च समाधिः ।
नित्यानाम् अतीन्द्रियत्वात् तद्धर्म्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः । नित्या वर्णा न विक्रियन्ते इति प्रतिषेधो युक्तः । कस्मात् ? नित्यानामतीन्द्रिय
For Private and Personal Use Only