________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१२
चरक-संहिता। (रोगभिषग्जितीथं विमानम् चाक्षेपो ध्वनिश्च उच्यते। कस्मात् ? यतो ध्वनिना वर्णात्मकेन शब्देनाभिव्यज्यते ध्वनिव्यङ्गाखाद ध्वनिः। तया व्यञ्जनया योऽर्थोऽभिव्यज्यते स व्यङ्गयार्थः द्योत्योऽर्थ एव भवति। ननु श्रूयते हि भू सत्तायामित्यादिरों मुख्यया श्रुत्या धातूनाम्, कर्तरि कम्मणि भावे च लः श्रूयते, वर्तमानादिषु लड़ादयः श्रूयन्ते, तिबादीनि त्रीणि त्रीणि चैकादिषु श्रूयन्ते, तत्र प्रथममध्यमोत्तमानि त्रीणि त्रीणि नामयुष्मदस्मदन्वयीनि। तथा च पचति गच्छतीत्युक्ते, एकः कर्ता वर्तमानः पाकः, एकः कर्त्ता वर्तमानं गमनमिति श्रुतितो लभ्यते। कर्ता क्रियाश्रयः । एकाश्रयेण सह वत्तेमानपाकस्याभेदः किमाक्षेपेण व्यज्यते ? नैवं ; स हि पदस्यार्थः श्रुतितो लभ्यते । देवदत्तः पचतीति देवदत्तो नाम पुरुषः श्रुत्या लभ्यते पारिभाषिक्या, सु-विभत्त्या तिङर्थकसयान्वयो बोध्यते। तत्रैकसङ्खाकदेवदत्तपाकाश्रययोरभेदः कस्यार्थः ? एकदेवदत्ताभिन्नाश्रय इति बोधात् । सोऽभेदोऽथः किमाक्षेपेण लभ्यते इति ? नैवं ; स हि पदस्यार्थः । कथं तद्विज्ञानम् ? उच्यते। अर्थवदधातुरप्रत्ययः प्रातिपदिकमित्यनेन ज्ञापितम् । धातुरर्थवान् प्रत्ययश्चार्थवान् प्रातिपदिकश्चार्थवदिति। तर्हि विभक्त्यन्तं पदं नार्थवत् ? नैवम्, उक्तं हि। प्रत्ययः। पर इत्यनेन प्रकृत्युत्तरमन्तरेण प्रत्ययस्यासम्भवात्। प्रत्ययान्तावयवभूतः प्रत्ययोऽर्थवानिति ख्यापितम् । तथापि नार्थवत् पदं ज्ञापितं भवति ? नैवं, प्रकृतेः परो यः प्रत्ययो विहितः स न निरन्वयेन विहितः प्रकृत्यर्थान्वयेनैव हि विहितस्ततो यः प्रत्ययार्थी येन सम्बन्धेनान्वयी भवितुमर्हति तत्सम्बन्धेनान्वयितया स प्रत्ययस्तस्याः प्रकृतेः परो विहित इति प्रकृत्यर्थप्रत्ययाथों परस्परान्वितो प्रकृतिप्रत्ययौ ब्रूतः । तत्र प्रत्ययान्तेषु सुवन्तं तिङन्तञ्च प्रत्ययान्तं पदम् अप्रत्यय इति विशेषणेन व्यायत्तप्रातिपदिकसंज्ञ' भवतु। तत् प्रकृतिप्रत्ययार्थयोः सम्बन्धश्च पदस्यार्थी भवतु। कृत्तद्धितसमासानां यः प्रकृतिप्रत्ययार्थयोः सम्बन्धः स कस्यार्थः पदखाभावान्न पदस्यार्थो न वा प्रातिपदिकार्थो न धालों न प्रत्ययार्थ इति ; उच्यते, स प्रातिपदिकार्थः। कथं विज्ञायते ? कृत्तद्धितसमासश्चेति प्रातिपदिकसंविधानेन विज्ञायते । प्रत्ययान्तावयवप्रत्ययवर्जनात्। कृत्तद्धितसमासानां प्रातिपदिकखप्रतिषेधे प्राप्ते पुनः समुदायैकार्थवत्त्वात् समुदायस्य प्रातिपदिकसंशाविधानात्। अन्यथा नीलोत्पलादीनामसमासान्तप्रत्ययानां प्रातिपदिकसंज्ञायां पृथग्ग्रहणानर्थक्थात् समासावयवभूतानां पदानामर्थवत्वेन समुदायस्य धातुप्रत्ययवर्जखादर्थववाभावाच प्रातिपदिकसंज्ञाप्राप्तिनं स्यात्
For Private and Personal Use Only