________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१५६४ दृष्टार्थश्चादृष्टार्थश्च सत्यश्चानृतश्चेति । तत्र दृष्टार्थो नाम त्रिभिहेतुभिदोषाः प्रकोपमापद्यन्तै छ, षड्भिरुपक्रमरुपशाम्यन्ति, श्रूयन्ते। यच्च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दास्तीत्रमन्दधर्मतया भिन्नाः श्रूयन्ते तदुभयं नोपपद्यते। नानाभूतानामुत्पद्यमानानामयं धम्मौ नैकस्य व्यज्यमानस्येति । अस्ति चायं विभागो विभागान्तरश्च। तेन विभागोपपत्तर्मन्यामहे । न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति। द्विविधश्चायं शब्दो वर्णात्मको ध्वनिमात्रश्च। तत्र वर्ण एव शब्दः किं वोपाहितः शब्दो वर्णात्मकः ? आदर वर्णस्यानित्यवप्रसङ्गः। वोपाधिको ध्वनिश्चेच्छब्दस्तहिं च वर्णः किं नित्योऽनित्यो वा ? न तावदध्वनिवदनित्यः अक्षराभिधानात् ; यन्न क्षरति तदक्षरं वर्णमित्य नर्थान्तरम् । न चाक्षरमित्ययं शब्दः परिभाषितोऽकारादिषु । मातृकावणेभ्योऽतिरिक्ता वर्णा न मातृकावणेभ्यो जायन्ते शब्दाच्छब्दान्तरवत् । कण्ठताल्वायभिघातादिप्रयत्न विशेषेण ध्वनिरेव सिद्धवर्णेनोपाहितः प्रव्यज्यतेऽकारादिरूपेण श्रूयते । तदकारोपाहितध्वनिरेव प्लतरूपेण श्रूयते, स खल्वकारोपाहितध्वनिसन्तानोन खकारसन्तानः। ढक्कादिध्वनिवन्न प्लुतादधिकोऽकारादिध्वनिसन्तानश्च श्रूयते। न च मातृकावर्णादधिकाश्च श्रूयन्ते तस्माद्वो नित्यः। तर्हि किं मातृकावर्णसमसङ्ख्यक एव वर्णात्मकः शब्दो नाधिक इत्यत आह-शब्दो नाम वर्णसमाम्नाय इति । ना अभ्यासे। वर्णानां समानासमानानाम् आ सम्यङ् नाय इति वर्णसमाम्नायः इति । सम्यगभ्यासो वर्णानां समानासमानानामनन्तयोगादनन्तः। स चैकः संपूय्यते वाक्यरूपेण। अकारादेवकैकवर्णस्तु न वाक्यरूपेण पूर्यते, तस्माद्वाक्यघटकानां पदानां पदघटकानां प्रकृतिप्रत्ययागमानाञ्च वर्णानां ध्वनिरूपेणाभिव्यक्तानां शब्दत्वेऽपि खल्विह वादमागेपदतया विवक्षाप्रवत्तेमाने हि वाद वादिनोरुक्तिप्रत्युक्तिभ्यामर्थबोधकवाभावात् । न हाकेन पदेन तद्घटकधातुपातिपदिकादिमात्रेण वा विवक्षितोऽथो वादिना शक्यते ज्ञापयितुम् इति, तस्मादवाक्यमेवार्थस्फोटः । इति ज्ञापयितुमाह-स चतुर्विध इति । तं विभजते। दृष्टार्थश्चेत्यादि। यस्यार्थ इह दृश्यते स दृष्टार्थों दृष्टफलः शब्दः । स दृष्टायो नाम यथा। ___ तदाहरति-तत्रेत्यादि। त्रिभिहेतुभिर्दोषाः प्रकोपमापद्यन्ते। इत्येक
* प्रकुप्यन्तीति बहुग्रन्थेषु पठ्यते ।
For Private and Personal Use Only