SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६८ चरक संहिता | [ रोगभिषगजितीयं विमानम् शब्दे । घण्टास्थमन्यगतं वा अवस्थितं सन्ताननिवृत्तौ कारणं वाच्यम् । येन श्रतिसन्तानो भवतीति । शब्दभेदश्च सति श्रुतिभेदे उपपादयितव्य इति । अनित्ये तु शब्दे घण्टास्थं सन्ताननिवृत्तिसंयोगसहकारिकारणान्तरं संस्कारभूतं प्रतिघातजवेगाख्यं परमन्दमनुवर्त्तते । तस्यानुवृत्या शब्दसन्तानानुवृत्तिः पदुमन्दभावाच्च तीव्रमन्दता शब्दस्य तत्कृतश्च श्रुतिभेद इति । न वै निमित्तान्तरं संस्कार उपलभ्यते । अनुपलब्धेर्हेतोर्निमित्तान्तरं नास्तीति । तत्राह - पाणिनिमित्तप्रश्लेषा च्छन्दाभावेनानुपलब्धिः । पाणिकम्मैणा पाणिप्रश्लेषो भवति । तस्मिंश्च सति शब्दसन्तानो नोपलभ्यते । ततः श्रवणानुपपत्तिः । तत्प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं प्रतिघातजवेगाख्यं निरुणद्धीत्यतोऽनुमीयते । तस्य च निरोधाच्छन्दसन्तानो नोत्पद्यते । अनुत्पत्तौ श्रुतिविच्छेदः । यथा प्रतिघातिद्रव्यसंयोगादिषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति । कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः । कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसन्तानस्येति । तस्मान्निमित्तान्तरस्य संस्कारभूतस्य प्रतिघातजवेगस्य नानुपलब्धिरिति । विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वमसङ्गः । यदि यस्य विनाशकारणं नोपलभ्यते तदवतिष्ठते, अवस्थानाच्च तस्य नित्यत्वं प्रसज्यते । एवं यानि खल्विमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतं न तेषां विनाशकारणं भवतोपलभ्यते । अनुपपादनादवस्थानमवस्थानान्नित्यत्वं प्रसज्यते । इति । अथ नैवं तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान्नित्यत्वमिति । कम्पसमानाश्रयस्य नादस्य पाणिमश्लेषात् कम्पवत् कारणोपरमादभावः । वैयधिकरण्ये हि प्रतिघातिद्रव्यमश्लेपादसमानाधिकरणस्यैवोपरमः स्यादिति । अस्पर्शत्वादप्रतिषेधः । आकाशगुणः शब्द इतीदं यत् प्रतिषिध्यते अयमनुपपन्नः प्रतिषेधः । अस्पर्शत्वाच्छन्दाश्रयस्य । रूपादिसमानदेशस्य ग्रहणे शब्दसन्तानोपपत्तेः । स्पर्शव्यापिद्रव्याश्रयः शब्द इति ज्ञायते न च कम्पमानाश्रय इति । प्रतिद्रव्यं रूपादिभिः सह सन्निविष्टः शब्दः समानदेशो व्यज्यत इति नोपपद्यते इति । कथम् ? विभक्त्यन्तरोपपत्तेश्च समासे । सन्तानोपपत्तेश्वति चार्थः । तझाख्यातम् । यदि रूपादयः शब्दश्च प्रतिद्रव्यं समस्ताः समुदितास्तस्मिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टः तस्य तथाजातीयस्यैव ग्रहणं न भवितव्यं शब्दे रूपादिवत् । अत्र योऽयं विभागः एकद्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्यमानाः , For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy