________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दम अध्यायः !
विमानस्थानम् ।
१५६७ न तु या यस्मादन्यः सोऽनन्य इति । अत्रायमभिसन्धिः, एकस्माद्यस्मादन्योSपरस्तस्माद परस्मादन्यः स एकः । यथा घटशब्दादन्यः पटशब्दः पटशब्दादन्यो घटशब्दः खल्वनन्य इति चेत् तदाभ्यासो न स्यात् । घटो घटो घट इत्येवं हि भवत्यभ्यासस्तत्र पूर्वी यो घटशब्दः स द्वितीयादेरन्यों द्वितीयादिस्तस्मादन्य इत्यनन्य इत्यत्रान्यत्वं तावत् किमुच्यते । तत् तदानुपूर्वीकत्वेन तदनन्यत्वं न खन्यत्वं तर्हि किं द्वितीयकालादुच्चरितत्वम् । तथात्वे च येनैकविधगायत्रत्रादिमन्त्रेण पूर्वौच्चरितेनाचाय्येण दीक्षितस्तस्य गायत्रादेवस्य तथैव पुनरुच्चरितस्यान्यत्वे शिक्षितत्वदीक्षितत्वाभावप्रसङ्गः स्यात् स्वरवर्णव्यतिक्रमे तु न तत् तन्मन्त्रत्वं यथा स्यात् तथा ताद्र्ष्येणापि तन्मत्रत्वं न स्यादिति न मातृकावर्णव्यतिरिक्तानां वर्णानामुत्पादनेन शब्दान्तरं कथं कुर्य्यात् तस्मात् स्थिरो वर्णात्मकः शब्दोऽभिव्यक्तिनिरोधधर्म्मकः । कारणादभिव्यज्यते कारणात् तिरोधत्ते । न च कारणान्नश्यति । कस्मात् ? विनाशकारणानुपलब्धेः । यदनित्यं तस्य विनाशः कारणाद् भवति तच्चोपलभ्यते । यथा लोष्ट्रस्य कारणद्रव्यविभागाद्विनाशः स च विभाग उपलभ्यते शब्दश्चेदनित्यस्तदा तस्य विनाशो यस्मात् कारणाद्भवति तदुपलभ्येत न च पुनरुपलभ्यते तस्मान्नित्यः शब्द इति । तत्राह - अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः । यथा विनाशकारणानुपलब्धेरविनाशान्नित्यस्तथा खल्वश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गो न च सततं श्रूयते शब्द इति । व्यञ्जकाभावादश्रवणमिति चेत् प्रसिद्धं व्यञ्जकम् । अथ विद्यमानस्य शब्दस्य निर्निमित्तमश्रवणमिति विद्यमानस्य निर्निमित्तो विनाशश्चेति समानश्च दृष्टविरोधो निमित्तमन्तरेण विनाशे चाश्रवणे चेति । उपलभ्यमाने चानुपलब्धेरसत्त्वादपदेशः । अनुमानाच्चोपलभ्यमाने शब्दस्य बिनाशकारणे विनाशकारणानुपलब्धेरसत्त्वादित्यनपदेशः । अनेन कारणेनैवमित्यपदेशः । अथ यस्मादविषाणी तस्मादश्व इति किमनुमानमिति चेत् सन्तानोपपत्तिः । उपपादितः शब्दसन्तानः । संयोग विभागजाच्छन्दाच्छब्दान्तरं जायते ततोऽप्यन्यत् ततोऽप्यन्यदित्येवं हि शब्दसन्तानस्तेनानुमानमिति । तत्र काय्र्यशब्दः कारणशब्दं निरुणद्धि । प्रतिघातिद्रव्यसंयोगस्त्वन्तिकस्य शब्दस्य निरोधकः । दृष्टं हि तिरःप्रतिकुड्यमन्तिकस्थेनाप्यश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्यसति व्यवधाने इति । घण्टायामभिहन्यमानायां तारस्तारतरो मन्दो मन्दर इति श्रुतिभेदान्नानाशब्दसन्तानोऽविच्छेदेन श्रूयते तन्न नित्ये
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only