SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६६ चरक-संहिता। रोगभिषगजितीयं विमानम् नानित्यो न नित्य इति व्यभिचारादिति। एतेनोक्तं भवति। योऽसावस्य शब्दस्योपादानभूतः शब्दोऽनभिव्यक्त आकाशेऽस्मिन्नणुः नित्य इति, स एव वाय्वादिष्वनुपविश्य क्रमेण स्थूलः सन्नपि नेन्द्रियग्राह्यः स सोऽपि नित्यः। पाञ्चभौतिके द्रव्ये खभिव्यज्यते स इत्यत उत्पद्यते इत्युच्यते ततो नानुपादानो न नित्यः परन्खनित्य इति स्थिरखादिति नास्थिरः शब्दो वर्णात्मको हि शब्दः स्थिरः। कस्मात् ? सम्प्रदानात् । अध्यापकोऽध्याप्यमानाय शिष्याय यदध्ययनं ददाति तस्मात् वर्णात्मकः शब्दः स्थिरो न खस्थिरः। तत्रोच्यते। तदन्तरालानुपलब्धेरहेतुः। सम्प्रदानादित्ययं हेतुन हेतुः। अध्यापनाध्ययनयोरन्तराले शब्दोपलब्ध्यभावात् । तत्राह स्थिरखवादी। अध्यापनादप्रतिषेधः। असति सम्पदानेऽध्यापनं न स्यात् तदध्यापनलिङ्गेन तयोरध्यापनाध्ययनयोरन्तरालेऽवस्थानमुपलभ्यते। सम्पदातुः सम्पदीयमानो ह्यवस्थितः। तस्मात् स्थिरतस्याप्रतिषेधः । तत्राह प्रतिवादी। उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः। अध्यापकस्थः शब्दः शिष्यं प्रपद्यते यत् तदध्यापनम् ? अथ नृत्यस्योपदेशवत्। नृत्यशिक्षको यथा नृत्यति तथानुकरोति नत्तेक इत्येवमध्यापकोच्चारितशब्दानुकरणमध्यापनमित्येतयोरुभयोः पक्षयोरन्यतरस्याध्यापनखादन्तरालेऽनुपलब्धेरस्थिरत्वप्रतिषेधाभावः शब्दस्यास्थिरखमेव। अथाह-स्थिरः शब्दो नास्थिरः । अभ्यासात् । अभ्यस्यमानो हि शब्दः स्थिरो दृश्यते। पञ्चकृतः पठति दशकृतः पठतीति तद्रूप एवावस्थितो दृश्यते। तस्मादवस्थितस्य शब्दस्य पुनःपुनरुच्चारणमभ्यास इति । तत्राह-नान्यत्वेऽप्यभ्यासस्योपचारात् । अवस्थितादन्यत्वेऽपि खल्वनवस्थितेऽभ्यासाभिधानान स्थिरत्वं शब्दस्य । यथा द्विनृत्यतु भवान् त्रिनेत्यतु भवान् 'त्रिरनृत्यद्विरनृत्यदिति भविष्यदतीतयोनत्तेनयोरनवस्थितयोरात्यभिधानमिति। तत्राप्याह-अन्यदन्यस्मादनन्यवादनन्यदित्यन्यथाभावः। यदिदमेकस्मादन्यदित्युच्यते तत् पुनः स्वस्मादनन्यवादन्यन्न भवति। एवमन्यताया अभावः। तत्र यदुक्तमन्यत्वेऽप्यभ्यासस्योपचारादिति तदयुक्तमिति । तत्राह प्रतिवादी-तदभावेनास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः। अनन्यदिति। न अन्यदित्यनन्यत्। तत्रानन्यदिति कस्मात् ? अन्यशब्दस्य प्रतिषेधार्थकना सह समासः । यदि चात्रोत्तरपदं नास्ति कस्यायं प्रतिषेधेन सह समासः। यस्मादन्यो यः स खलु तदभावस्तत्रानन्यता नास्ति। तयोद्वयोः परस्परापेक्षान्यतायाः सिद्धेः। यो यस्मादन्यस्तस्मादन्यः स इति भवत्यनन्यः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy