SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १५६५ आश्रयं व्यामोति । सामान्यकृता च भक्तिराकाशस्य प्रकाश इति । अनेनात्मप्रदेशो व्याख्यातः। संयोगवच शब्दबुद्धग्रादीनामव्याप्यवृत्तिवमिति। एवमैन्द्रियकशब्दस्यानित्यत्वे सिद्ध पुनर्वादी भाषते। अथ तहि निरुपादानका शब्दः । कस्मात् ? प्रागुत्पत्तेरनुपलब्धः। शब्दस्योत्पपत्तेः पूर्वमुपलब्ध्यभावात् निरुपादानकवासङ्गः। नावरणादिभ्यः। आवरणादिभ्यः कारणेभ्यो न प्रागुत्पत्तेरुपलब्धिः। नैवम्, तेषामनुपलब्धेः। आवरणादीनामनुपलब्धिकारणानामुपलब्धर्नावरणादिभ्योऽनुपलब्धिः। आवरणसन्निकर्षव्यवधानादिकं शब्दानुपलब्धिकारणं नोपलभ्यते । तस्मात् प्राक् शब्दोत्पत्तेः शब्दारम्भकः शब्दो नास्ति। न हि विजातीयगुणेन विजातीयगुण आरभ्यते । तस्मादयं शब्दो निरुपादानक इति। तत्रोत्तरम् । तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः। यदि शब्दस्यानुपलब्धिकारणानामावरणादीनामनुपलम्भानास्तिवम् आवरणाद्यनुपलब्धिरप्यनुपलम्भात् तहि नास्तीति। आवरणोपलब्ध्यभावप्रतिषेधादस्त्यावरणादिकं शब्दानुपलब्धिकारणमिति । तत्राह पुनर्वादी। अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् । आवरणानुपलब्धिरनुपलभ्यमानापि यथास्ति तथानुपलभ्यमानमप्यावरणमस्तीति यद्यभ्यनुजानाति भवान् तदानुपलभ्यमानाप्यावरणानुपलब्धिरस्ति। तस्मानास्त्यावरणमनुपलम्भादिति। तर्हि च। अनुपलम्भात्मकखादनुपलब्धेरहेतुः । यदुपलभ्यते तदस्ति यत्नोपलभ्यते तन्नास्तीति। अनुपलम्भात्मकमसदिति व्यवस्थितम् । उपलब्ध्यभावश्चानुपलब्धिः, सा पुनरभावखानोपलभ्यते। सच खल्वावरणं तस्योपलब्ध्या भवितव्यम्। न चोपलभ्यते तदावरणमित्यतो नास्तीति तच्च यदुक्तं नावरणानुपपत्तिरनुपलम्भादिति तदयुक्तम् । तस्माद् अस्त्यस्य शब्दस्योपादानं नित्यः शब्दः। कस्मात् ? अस्पर्शवात्। यथा आकाशम्। यथा चाकाशमस्पर्श तच्च नित्यं तस्मानित्य इति। न कर्मानित्यखात्। अस्पर्शखादाकाशवन्न शब्दोऽस्य शब्दस्योपादानं नित्यः (शब्दः)। कस्मात् ? कानित्यत्वात्। कर्म चास्पर्शमनित्यम् । दृष्टं स्पर्शवांश्वाणुनित्य इत्युभयतः सव्यभिचारी हेतुश्च दृष्टान्तश्चेति 'साधम्म्यण दृष्टान्तो न साधुः। साध्यवैधम्म्येण दृष्टान्तश्च। नाणुर्नित्यखात् । नित्यः शब्दोऽस्पर्शखात्। यथा घटः। यथा च घटः स्पृश्यः स चनित्यो न तथास्पृश्यः । शब्दस्तस्मान्नित्य इति साध्यवैधयेण. दृष्टान्तोऽपि न भवति। कस्मात् ? अणुनित्यत्वात्। अणुर्हि स्पृश्यः स च नित्यः सर्वो हि स्पृश्यो For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy