________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६४
चरक-संहिता। (रोगभिषगजितीयं विमानम् सति यथा भेरीशब्दः कश्चित् तत्रीशब्दमभिभवति । एवमन्तिकस्थोपादानमिव कि दवीयःस्थोपादानमपि तत्रीस्वनं नाभिभवेत् । अप्राप्तरविशेषात् । तत्र कैश्चिदेव भेट्यो प्रणादितायां सर्वलोकेषु समानकालास्तत्रीस्वना न श्रूयेरन्निति। नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच्छब्दस्य तीव्रखन मन्दस्याभिभवो युक्त इति। कः पुनरयमभिभवो नाम । ग्राह्यसमानजातीयग्रहणकृतमग्रहणमभिभवः। यथोल्काप्रकाशस्य ग्रहणाहेस्य आदित्यप्रकाशेनेति। तत्राह वादी। न घटाभावसामान्य नित्यखानित्येष्वप्यनित्यवदुपचाराच्च । न खल्वादिमत्त्वादनित्यः शब्दः। कस्मात् ? व्यभिचारात। आदिमतः खल घटाभावस्य दृष्टं नित्यवम् । कथमादिमान् । कारणविभागेभ्यो हि घटो न भवति। कथमस्य नित्यत्वम् ? योऽसौ शब्दकारणविभागेभ्यो न भवति तस्याभावो न कदाचिद्भावेन निर्वताते इति । यदप्यन्द्रियकखात् तदपि व्यभिचरति। ऐन्द्रियकलं सामान्यं नित्यञ्चेति । यदपि कृतकवदुपचारादिति तदपि व्यभिचरति। नित्येष्वप्यनित्यवदुपचारो दृष्टः । यथा हि भवति वृक्षस्य प्रदेशः कम्बलस्य प्रदेश एवमाकाशस्य प्रदेश आत्मनः प्रदेश इति भवतीति। तत्र नित्यवादिनं प्रत्याह। तत्त्वभाक्तयो
नाखविभागादव्यभिचारः। नित्यः शब्द इति तत्र नित्यवमित्यत्र किं तावनित्यखम्। आत्मान्तरस्यानुत्पत्तिधम्मकस्यात्महानानुपपत्तिनित्यत्वम् । तच्चाभावे नोपपद्यते। भाक्तन्तु भवति। यत् तत्रात्मा न महानासीत् । यदभूखा न भवति न जातु तत् पुनर्भवति। तत्रानित्य इव नित्यो घटाभाव इत्ययं पदार्थः। तत्र यथाजातीयः शब्दो न तथाजातीयक कार्य किश्चित् दृश्यते इति व्यभिचारः। यदपि सामान्यनित्यवादिति इन्द्रियप्रत्यासत्तिग्राह्यमै न्द्रियकमिति सन्तानानुमानविशेषणात्। नित्ये व्यभिचार इति प्रकृतम् । नेन्द्रियग्रहणसामर्थ्याच्छब्दस्यानित्यत्वं किं तर्हि ? इन्द्रियप्रत्यासत्तिग्राह्यखात् सन्तानानुमानम्, तेनानित्यवमिति । यदपि नित्येष्वप्यनित्यखवदुपचारादिति, न। कारणद्रव्यस्य प्रदेशशब्देनाभिधानान्नित्येष्वप्यव्यभिचार इति । एवमाकाशस्य प्रदेश आत्मनः प्रदेश इति नात्राकाशात्मनोः कारणद्रव्यमभिधीयते यथा कृतकस्य। कथं ह्यविद्यमानमभिधीयते। अविद्यमानता च प्रमाणतोऽनुपलब्धः। किं तहि तत्राभिधीयते। संयोगस्याव्याप्यवृत्तिलम् । परिच्छिन्नेन द्रव्येणाकाशस्य संयोगो नाकाशं व्यामोति। अव्याप्य हि वत्तेते इति। तदस्य कुतकेन द्रव्येण सामान्यम्। न ह्यामलकयोः संयोगः
For Private and Personal Use Only