________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। । रोगभिषजितीयं विमानम् सति श्रोत्रादिसदभावे शब्दादिग्रहणमिति। अष्टार्थः पुनरस्ति प्रत्यभावोऽस्ति मोक्ष इति। सत्यो नाम यथार्थभूतः। सन्त्यायुवेदोपदेशाः, सन्ति सिद्धापायाः साध्यानां व्याधीनाम्, सन्त्यारम्भफलानीति । सत्यविपर्यायाचानृतः ॥३३॥ वाक्यं दृष्टफलम्। असात्मेन्द्रियार्थसंयोगादिभिस्त्रिभिहेतुभिः सर्वे वातादयो दोषाः प्रकुप्यन्तीति दृश्यते। । एवमुदाहरणान्तरं शिष्यहितार्थ दर्शयति। पड़ भिरुपक्रमैरुपशाम्यन्ति। लङ्घन हणीयादिभिः सर्वे कुपिता दोषाः प्रशाम्यन्तीति दृश्यते। अपरमुदाहरणमाह-श्रौत्रादिसम्भवे शब्दादिग्रहणमिति। एप हि प्रमाणशब्दः । अथादृष्टार्थमाह-अदृष्टार्थः पुनरस्ति प्रेत्यभावोऽस्ति मोक्ष इति । यस्याथ इह न दृश्यते सोऽदृष्टाः शब्दः, स खल्वदृष्टफलं वाक्यम्। अस्ति प्रेत्यभाव इत्येकमपरमस्ति मोक्ष इति । एषोऽपि प्रमाणशब्दः। यद्यपि दृष्टार्थादृष्टार्थी शब्दौ सत्याथों यथार्थभूतखात् तथापि दृष्टार्थादृष्टार्थव्यतिरिक्तोऽपि सत्यः शब्दोऽस्तीति पृथगुच्यते सत्यो नाम यथार्थभूत इति। स च यथार्थो द्विविधः-अलोके सत्यो लोके सत्यश्चानृत इति। अव्यक्तादृर्द्ध प्रधानं क्षेत्रज्ञः कालो विद्या विद्याविशिष्टपञ्च ब्रह्म पुरुषा ऋग्वेदादयः सत्याः परमार्थतः। लोके पुनरव्यक्तात्मादयश्चतुर्विंशतिस्तत्त्वानि तन्मयदेवनरादयश्च सङ्घाताः सत्यानृताः परमार्थेऽनृतखात् लोके सत्यखाच । तदुदाहरति-सन्त्यायुर्वेदोपदंशाः। इति परमार्थसत्यत्वात् सत्यशब्दः ; सन्ति . सिद्धापायाः साध्यानां विकाराणामिति लोके सत्यः परमार्थेऽनृत इति सत्यानृतार्थः सत्यशब्दः। एवं सन्त्यारम्भफलानीति सत्यानृतार्थशब्दः। एषोऽपि प्रमाणशब्दः । अथानृतशब्दमाह-सत्यविपर्ययाच्चानृत इति । यथा नास्तीश्वरः नास्त्यात्मा नास्ति कम्मैफलं नास्ति पुनर्भवः, एवं यावन्मिथ्यावाक्यमिति । मिथ्यार्थशब्दस्यापि वादं प्रयोगादुपदेश इति।।
वर्णसमाम्नायो वाक्यन्तु वशिष्ठाय अग्निनोक्तमाग्नेयपुराणेऽलङ्कारे । सङ्क्ष पाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली। तत्र च वर्णन्दं स्यात् पदं सुप्तिङप्रभेदवत् । सङ्क्षपात् समासत इष्टार्थव्यवच्छिन्ना पदावली वाक्यं दृष्टाथ इति प्रमाणान्तरोपलब्धियोग्यार्थः। विभिहेतुभिरिति प्रज्ञापराधादिभिः। षड़पक्रमा लकनादयो लङ्घनवृहणीयोक्ताः। एतेषां वाक्यानामिहैव दृश्यतेऽर्थ इति रष्टार्थस्वम् । सवि. पम्य॑यः-'न सन्त्यायुर्वेदोपदेशाः' इत्यादिज्ञेयः ॥ ३३ ॥
For Private and Personal Use Only