________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः । निदानस्थानम्।
१२१६ कुपितो दोषो व्याधिरूपेण जायते तत्कारणेन सेव्यमानेन पुनः स व्याधिः लब्धबलो हुप्रपद्रवं करोति। ततो वा तन्मूलं मूलं यस्येति स तन्मूल इति । यथातथा तन्मूलो भवतु व्याधिकृत एवोपद्रवो न व्याधिलक्षणम् । वह्निकार्य धूमो वह्निलिङ्गं तद्वत् पर्बोत्पन्नव्याधिकृतो व्याधिन कथं लिङ्गं भवति लक्षणखाभावान्न पूर्वोत्पन्नव्याधेलिङ्गं ताधिकृतो व्याधिः । लक्षणं तत् तस्य भवति, व्यक्ताव्यक्तयद्रूपापन्नः सन् य उत्पन्नो भवति तत्तद्वाक्ताव्यक्तरूपं तस्य लक्षणं तत्तप्राधेलिङ्गमिति। न हि पितु: पुत्रो लक्षणं न वा धूमो वह्न रिति। किन्तु कार्य काव्येण लिङ्गेनानुमीयते, यथा वह्निः तथोपद्रवेणानुमीयते व्याधिबलवान् कष्टसाध्योऽसाध्यो वा, न चानुमीयते वातायात्मक इति। कष्टसाध्यवादी व्याधेलिङ्गं न तु व्याधेलक्षणं लिङ्गमिति । व्याधिस्तु यथा स्वाधिकारे वक्ष्यमाणसन्तापादिलक्षणः स्वरूपतो ज्वरादिर्यथा गलकम्बलादिलक्षणः स्वरूपतो गवादिः स शुक्लोऽब्बहुलस्तेजोबहुलो लोहितः श्यावो वायुबहुल इति । एवमेव ससन्तापादिलक्षणो ज्वरादिवेपथ्वादिलक्षणो वातात्मकः तीक्ष्णवेगादिलक्षणः पित्तात्मकः स्तै मित्यादिलक्षणः कफात्मक इति । समुदायात्मको व्याधिः प्रत्येक तस्य लक्षणम् । समुदायात् पृथक् समुदायी। यथा खदिरवणं देवदारुवणमित्येवमादयः। तत्रापि वनाधिष्ठाता कश्चिद् भावो वनं तस्य लक्षणं प्रत्येकं वृक्षः। यथा च कालः षड़तुकः षडङ्गस्तत्राधिष्ठाता कलनलक्षणः कश्चिद भावस्तस्य लक्षणं शीतोष्णवर्ष तत्तल्लक्षणा ऋतवः षट् च लक्षणानि। यथा च पर्वतस्तत्राधिष्ठितः कश्चिद् भावस्तस्य लक्षणं प्रस्तरतरुलतादिकम् । एवं मांसाङ्क रादिकमशोव्याधिः स्वरूपतो भवत्यस्य लक्षणं कृष्णबङ्नखादिकं तत्समुदायात्मकमशे इति ।
अथैतच्छास्त्रे व्यवहारार्थ लिङ्गस्य पर्यायानाह-आकृतिरित्यादि। अनर्थान्तरमिति । योऽर्थो लिङ्गशब्दस्य स एवार्थ आकृतिशब्दस्य स चार्थो लक्षणशब्दस्य स एवार्थश्चिद्गशब्दस्य संस्थानशब्दस्य स एवार्थः सोऽर्थश्च व्यञ्जनशब्दस्य रूपशब्दस्य च स एवार्थ इत्येकोऽर्थों लिङ्गादिशब्दानां न वान्तरमिति। कथमिति चेत् ? “समवेतानां पुनर्दोषाणामंशांशविकल्पो विकल्पोऽस्मिन्नर्थे इति। 'विकल्प'शब्दो ह्यन्यत्रापि वर्त्तते, यथा-"अन्यैश्च विकल्पैर्विकल्पितानाम्,” तथा “विकल्पो न त्वसाध्यानाम्" इत्यादि। ननु पूर्वरूपोपशययोः किमिति पर्यायानभिधानम् ? ब्रूमः, पूर्वरूपस्य तावत् पर्यायाभिधानम्,- यदेव रूपस्य तदेव ; यतः पादय एव हि 'पू' इ.ब्दयुक्ताः पूर्वरूपपर्याया
For Private and Personal Use Only