________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१८ चरक-संहिता।
। ज्वरनिदानम् मात्रे महामोहरूपः मरणकाले तमोरूपः मध्ये सन्तापलक्षणः। इति स्वरूपलक्षणमपि लिङ्गं न चात्माश्रयो दोषः। एवं प्राग्भूतरक्तपित्तादयोऽपि लोकेऽपचारादिना जायमाना यथास्खलक्षणा जायन्ते। तेषाश्चापरे व्याधयो ये लिङ्गानि ते तद्वग्राधिबोधने तु न व्याधयः पृथगभूता यदा तदा पृथगेव व्याधयः । वक्ष्यतेऽत्रैव। ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि संग्रहे। व्याधयस्ते तदात्वे हि लिङ्गानीष्टानि नामयाः। इति । प्रमादिनः केचिदाहुः । पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। यं विशन्ति विशत्येनं मृत्युवरपुरःसरः । अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्, इत्यनेन चरकवचनेन पूर्वरूपानुत्तिरुत्पन्ने च व्याधौ भवतीति तदसाधु। तत्पव्र्वरूपाणि हि सर्वाणि यस्य स्युस्तस्य मरणं स्यादुत्पन्ने व्याधौ यं विशन्तीत्येवमुक्तिने कृता, कथं तथा व्याचक्षते इति। उपद्रवास्तु नोत्पन्नव्याधिलक्षणानि। किन्तूत्पन्नव्याध्यारम्भकदोषप्रकोपाज्जातोऽन्यो व्याधिः । सुश्रुतेनोक्तं यः पूर्वोत्पन्नं व्याधि जघन्यजातव्याधिरुपसृजति स तन्मूल उपद्रवसंज्ञ इति। अत्र स तन्मूल इति तन्मूलं मूळं यस्येति तन्मूलः । तद्बाधेर्यन्मूलमारम्भको दोषः अपचारादिना भूयः प्रकुपितः स दोषस्तस्य मूलं तं व्याधि जनयतीत्याहुरेके । तत्रापरे चाहुः। अत्र जिज्ञास्यं, यो दोषो दृष्यसंयोगेन विक्रियमाणो ययाधिरूपेण जायते, स किं कात्स्न्येनेकदेशेन वा ? यदि कात्स्न्येन मृदादिर्यथा घटादिरूपेण जायते तथा दोषो व्याधिरूपेण जायते, तदा तद्वग्राध्यारम्भकदोषः पृथङ् न वत्तते, कः पुनरपचारादिना प्रकुपित उपद्रवं कुर्यात् ? अथ चेदेकदेश उपद्रवं करोत्येकदेशो क्याधिरूपेण जायत इति तहिं स एकदेशो न व्याधेमू लं, कथं तन्मूलं मूलं यस्यति सिध्यति ? तस्मात् स पव्वौत्पन्नो व्याधिमूलं यस्य स तन्मूल इति। यत्कारणेन
ऽर्थेऽभिधेयेऽनन्तरम् । प्रकरणान्तरे तु अर्थान्तरेऽपि लिङ्गादयो भवान्त, यथा-“बली लिङ्गं समर्पयेत्" इत्यत्र शेफ उच्यते। तथा “संस्थानमाकृतिज्ञेया सुपमा विषमा च या" तथा "लक्षणवच्चोदाहरणवच्च” तथा “तैलसपिभ्यां व्यञ्जनमुपकल्पयेत्,” तथा “रूपस्य सत्त्वस्य च सन्ततिर्या' इत्यादी। ननु यथेह 'अस्मिन्नर्थे' इत्युक्तम्, तथा हेतुन्याधिसम्प्राप्तिपर्यायाभिधानेऽपि “अस्मिन्नथे” इति वक्तव्यम् ननु हेतुपर्यायाभिधाने तावत् "इह खलु" इत्यनेनैव तदर्थ उक्त एव । सम्प्राप्तिपर्यायकथने च "व्याधेः" इति पदेन 'अस्मिन्नर्थे' इतिपदस्यार्थ उक्त एव, गदपाये तु नार्थान्तरता प्रायो दृश्यते ; तेन तत्र 'अस्मिन्नर्थे' इति न कृतम् ; अयञ्च आचार्याभिप्रायः-यद्- यद्यत्रान्यार्थतां शब्दस्य पश्यति, तत्रैव 'अस्मिन्नर्थे' इति करोति । तथा
For Private and Personal Use Only