________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः निदानस्थानम् ।
१२१७ प्रादुर्भूतलक्षणं पुनर्लिङ्गमाकृतिर्लक्षणं चिह्न संस्थान व्यञ्जनं रूपमित्यनर्थान्तरमित्यस्मिन्नर्थे । __ अथ तर्हि किं तद व्यक्त लिङ्गं व्याधे रूपं नेत्याह-प्रादुभूतेत्यादि। प्रादुर्भूतलक्षणं पुनर्लिङ्गमिति। प्रादुर्भूतस्योत्पन्नस्य व्याधेः यल्लक्षणं तबाधेलिङ्गं न तु भविष्यतो भवतो वा व्याधेरिति। प्रादुर्भूतपदस्थभूतार्थ निष्ठाप्रत्ययेन भाविभवद्याधेलेक्षणनिदानोपशयसम्प्राप्तीनां व्यावृत्तिः कृता । उत्पन्नस्य च व्याधेर्लिङ्गं न सर्व व्यक्तं भवति किञ्चित् तु व्यक्तं किञ्चिचाव्यक्तम् । यथा जातस्य वालकस्य पाणिपादादिकं सर्वमङ्गं व्यक्तं श्मश्रुदन्तलोमविशेषशुक्रादिकमव्यक्तं बालायाः स्तनातेवादिकमिति । उक्तश्च श्वासाधिकारे–स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणा इति। अत्राव्यक्तलक्षणा जायमाना एव जातानां व्यक्ताव्यक्तलक्षणखात् । तस्मात् तदेव व्यक्ततां यातं रूपमित्यभिधीयते इति यदुक्तं तदसाधु । व्याधेः स्वरूपं यल्लक्षणं तदपि लिङ्गं, यथा षडङ्गः पुरुष तस्यैकैकमङ्गं लिङ्गं, तथा सन्तापलक्षणो ज्वरः, मांसाङ्क रलक्षणमर्शः, ग्रन्थिविशेषरूपो गुल्मः, न चात्माश्रयदोषः । सूक्ष्मशरीरी हि पुरुषो यथा देवनरतिर्यगयोनिषु जायमानः पड़ङ्गलक्षणो जायते तत्षडङ्गेनानुमीयतेऽयं देवोऽयं मनुष्योऽयं पशुरिति ; एवमेव मृत्युकन्यारोदनात् यावन्तोऽश्रुबिन्दवोऽपतन् प्राक्काले तावन्त एव रोगाख्या अभवन् तेषामेकैक एव बिन्दुरेकैकव्याधिरभूत--कश्चित् ज्वरः कश्चिद्रक्तपित्ताख्यः कश्चित् यक्ष्मेत्येवमादिः, तेषां ज्वरो दक्षाध्वरध्वंसे जातस्य वीरभद्रस्यैकस्य शिवा. ज्ञया तिस्रो मूर्तयः स्वरूपरूपेण प्रथमगणपतिवीरभद्र एव द्वितीया मृतिः भूमिसम्भवा मङ्गलग्रहात्मिका तृतीया मूत्तिः लोके ज्वरः। स प्राणिनां जन्म
लक्षणमाह-प्रादुर्भूतेत्यादि। उत्पन्नव्याधेः स्वरूपं तथा वाताद्यामपक्कादिविशेषणविशिष्टं व्याधि निदानोपशयसंप्राप्तिव्यतिरिक्त यद् बोधयति तल्लिङ्गम्। अनेन च ग्याधिप्रतिनियतं लिङ्गम्, यथा ज्वरस्य सन्तापः, तथा अतिसरणमतीसारस्येत्यादि गृह्यते। तथा वातादिकृतञ्च वातादिज्वरस्य विषमारम्भविसर्गित्वादि गृह्यते। तथा आमपक्वजीर्णज्वरलक्षणादीनि विशिटव्याधिबोधकानि गृह्यन्ते। तथा उपद्रवाश्चासाध्यताद्यवस्थापन्नव्याधिबोधकत्वेन लक्षणान्येव । रिटन्तु मरणस्य पूर्वरूपमेव। निदानादयस्तु यद्यपि उत्पन्नव्याधिगमका अपि भवन्ति, तथापि पृथगलक्षणनिर्देशान्न ते इह लिङ्गशब्देनोच्यन्ते । ब्यवहारार्थ तथा लक्षणार्थञ्च पर्यायानाह-तत्र लिङ्गमित्यादि। अस्मिन्नर्थे ऽनन्तरमिति लिङ्गलक्षणे
१५३
For Private and Personal Use Only