________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२१६
ज्वरनिदानम्
चरक संहिता । वाताधिकवातपित्तजादिष्वित्युक्तम् । तत्र पूर्व्वरूपेषु वर्त्तमानेषु न खतीतेषु । स्वच्छघृतपानादिभिर्ज्वरकारिदोषनाशात् दोषजश्रमादिनाशः स्यात् तेन च दूष्यसंयोगोऽपि न दोषेण भवतीत्यतो न ज्वरो भविष्यतीति । भविष्यज्ज्वरस्यापीयं पूर्वरूपचिकित्सया चिकित्सा भवति इत्यभिप्रायेण कतिधापुरुषीयेऽप्युक्तम् । पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम् । या क्रिया क्रियते सा च वेदनां हन्त्यनागताम् ।। इति द्विधैव सामान्यपूर्व्वरूपमिति ।
་
अथ दृष्यसंयोगे दोषाणां यथा यथा व्याधिर्जायते तत् सर्व्वं प्रतिरोगं सम्प्राप्तौ वक्ष्यते । तत्र दोषाणामल्पत्वात् तत्तद्याध्यारम्भसमाप्तिपय्र्यन्तं यद् यल्लक्षणं तत् सव्र्व्वमव्यक्तं स्वल्परूपत्वात् । यथा गर्भे बालकस्य लक्षणमिति । लिङ्गमव्यक्तमल्पत्वाद् व्याधीनां तद् यथायथमिति विशिष्टप्राग्रूपम् । तदेव व्यक्ततां यातं रूपमित्यभिधीयते । यत उक्तं चरकेण क्षतक्षीणे । अव्यक्त' लक्षणं तस्य पूर्वरूपमिति स्मृतमिति चेत् ? नैवं, ज्वरादीनां सामान्यजानां व्याधीनां स्वस्वलक्षणातिरिक्तमस्ति पूर्वरूपं क्षतक्षीणस्य तु खल्वेकविधस्य प्रभेदहीनखात् नास्ति स्वलक्षणातिरिक्त' पूर्वरूपं तेन लक्षणातिदेशेन संक्षेपोक्त्यर्थमुक्तम् । अव्यक्तं लक्षणं तस्य पूब्वेरूपमिति स्मृतमिति यदेव क्षतक्षीणस्योत्पन्नस्य लक्षणं तदेव दोषदृष्यसंयोगात् पूर्व्वमपि चाव्यक्तरूपेण भवति तदस्य पूवेंरूपं न तु दोषदृष्यसंमूर्च्छनावस्थायामव्यक्तं यत् तत् पूर्व्वरूपम् उत्पत्तेः समकालिकत्वेन पूर्वखाभावादिति, तस्मात् तत्प्रमाणतो दोषदृष्यसंमूर्च्छनावस्थातः पूर्वमन्येषां व्याधीनां ज्वरादीनां श्रमादिवदव्यक्तस्वलक्षणातिरिक्तलक्षणं नास्ति च ज्वरादीनां क्षतक्षीणस्य दोषदृष्यसंमूर्च्छनावस्थातः पूर्व्वमव्यक्तलक्षणात् अव्यक्तस्वचक्षणं स्वस्वलक्षणातिरिक्त श्रमादिपूर्व्वरूपाणामुक्तत्वादिति । तस्मादनामयोक्तिञ्च तद् यदुक्तं लिङ्गमव्यक्तमल्पवाद्याधीनां तद् यथायथमिति प्राग्रपम् । तत् तु सम्प्राप्त्यवस्थाजातं लक्षणं गर्भस्थबालस्याकृतिवत् ।
Acharya Shri Kailassagarsuri Gyanmandir
नन्दनम् ॥” इति । एतद्धि पूर्वरूपं भाविज्वरलिङ्गमेवाव्यक्तमल्पत्वेन ज्ञेयम् । व्यक्तो हि ज्वरे वातादिजे जृम्भादयः पूर्व्वरूपापेक्षया अत्यर्थं भवान्त । एवं पूर्व्वरुपद्वैविध्ये यत्र विशिष्टं पूर्वरूपमस्ति, तत्र साक्षादेवाभिधीयते यत्र विशिष्टन्तु नास्ति, तत्र लिङ्गमात्रं वक्ष्यति ; तेन अन्यान्येव लिङ्गानि पूर्व्वरूपमिति तत्र ज्ञातव्यम् ।
For Private and Personal Use Only