________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः । निदानस्थानम्।
१२१५ बोधकानां निदानोपशयादीनां व्यारत्तेः, व्याधिविशेष इतिपदेन चयप्रकोपपसरलक्षणानां व्यायत्तेश्च । व्याधिपदेन भावी दोषाणां सामान्य भूतान्त्यभूतोभयविशेषो व्यारत्तो प्रसज्यते। अत्रान्त्यविशेषव्यावृत्यथमुक्तं न तु दोष विशेष इति । येन भावी दोषाणामन्त्यविशेषो न लक्ष्यते भावी व्याधिविशेषो लक्ष्यते तत् पूर्वपरित्ययः । सामान्यं द्विया विशेषश्च द्विधा, सर्वसामान्यं यथा सत्ता, विशेषसामान्यं यथा द्रव्यवं गुणवं कम्प्रेवश्च । सत्तापेक्षविशेषश्च। तत्त्वमन्त्यविशेषः। तथैव वातादेकैकदोषोऽन्त्यविशेषः। यच्च सुश्रतेनोक्तं-सामान्यतो विशेषात् विति, तन् सर्वसामान्यानि श्रमादीनि पूर्वरूपाणि ज्वरस्य ततो विशेषात् तु सामान्यभूतविशेषा श्रमादिषु या ज़म्भा सा चेदत्यर्थं तदा समीरणादिति केवलवाताद्वाताधिकवातपित्ताद्वा अधिकवातकफाद्वाताधिकसन्निपाताच। एवम् इच्छा द्वषो मुहुश्चापि शीतवातातपादिषु इत्यनेन यो दाह उक्तः स चेन्नयनयोरत्यर्थ स्यात् तदा स पित्तात्, केवल पित्तात् पित्ताधिकवातपित्तात् पित्ताधिककफपित्तात् पित्ताधिकसन्निपाताच भवति। तथा श्रमादिषु याऽरुचिरुक्ता सा चेदत्यर्थ भवति तदा कफात् केवलकफात् कफाधिकवातकफात् कफाधिकपित्तकफात् कफाधिकसन्निपाताच्चेति सामान्यभूतविशेषादन्त्यभूतविशेषाच्च। ततोऽन्त्यभूतो भावी दोषविशेषो न लक्ष्यते इति । द्विविधं सामान्यं सर्वसामान्यं तदपेक्षविशेषसामान्यमिति। विशेष-सामान्यपूर्वरूपमत्यथ जम्भादिकं न खन्त्यविशेष पूज्वरूपमिति न पराशरवचनविरोधः । सुश्रुतेनापि ज्वरचिकित्सिते ज्वरपूर्वरूपचिकित्सोक्ता। ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्। पाययेत घृतं स्वच्छं ततः स लभते सुखम् । विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्। मृदु प्रच्छईनं तद्वत् कफजेषु विधीयते। सर्च त्रिदोपजेषूक्तं यथादोषं विकल्पयेत । अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना। रूपप्रा पयोविद्यान्नानात्वं वह्निधूमवत्। इति । अत्र मारुतजेषु पैत्तिकेष कफजेष्विति बहुवचनाद वावज
गमकम्, न तदोषविशेषगमकम् । एतत् पूर्वरूपाभिप्रायेण च वाग्भटेऽप्युक्तम् ; यथा“प्रापं येन लक्ष्यते। उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः” इति। यत् तु भव्यक्तलिङ्गं पूर्वरूपम्, तदोषदृष्यावशेषमपि व्याधेर्गमयति, यदुक्त हारीते- इति पूर्वरूपमटानां ज्वराणां सामान्यतो, विशेषतस्तु जृम्भाङ्गमईभूयिष्ठ हृदयोगि वातजम्" इत्यादि। तथा सुश्रुते. ऽप्युक्तम्-“सामान्यतो विशेषात् तु जृम्भात्यर्थ समीरणात्। पित्तानयनयोर्दाहः कफानान्नाभि
For Private and Personal Use Only