________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१४ चरक-संहिता।
ज्वरनिदानम् विशेषषेणानधिष्ठित इति विशेषणानर्थक्यम् । दोषविशेषाष्ठितो हि उत्पद्यमानो व्याधिरुत्पन्नश्च व्याधिन च स उत्पित्सुः। दोषविशेषेणानघिष्ठित आतको येन लक्ष्यते तत् पूर्वरूपमिति वा भवतु व्यर्थमुत्पित्सुरिति विशेषणम् । तस्मात् असाधु चैतत्-तत्या पं येन लक्ष्यते । उत्पित्सुरामयो दोष-विशेषेणानधिष्ठित इति । अत्र याच्यते दोषविशेषेण अनघिष्ठित इति दोप-विशेषवातादिजन्यासाधारणवेपथ्यादिना लक्षणेनानधिष्ठित इति, तदप्यसाधु। दोषविशेषवातादिजन्यासाधारणवेपथ्यादिनाधिष्ठितो यो वातादिजातः स खलु नोतपित्सुाधिरुत्पन्नो व्याधिहि नोत्पित्सुः भवतीति। एवं यदुच्यते विशिष्टपूर्वरूपम् -लिङ्गमव्यक्तमल्पखावाधीनां तद् यथायथमिति, तदप्यसाधु, अनार्षखादयौक्तिकखाच्च । अल्पखाद् हि अव्यक्तं लिङ्गमुत्पद्यमानस्यैव व्याधेर्भवति न भविष्यतो व्याधेः। पूर्वरूपं व्याधेः इति किं व्याध्युत्पत्तेः पूर्व यद्रूपं तत् पूर्वरूपम् १ अथ किमुत्पन्नागाधेः पूर्व यद्रूपं तत् पूर्वरूपमिति ? तत्रोत्पद्यमानस्य यद्रूपं तन्नोत्पत्तेः पूर्व किन्तु उत्पत्तिसमानकालम् । अथोत्पन्नात् पूर्वमिति चेत् ? तदा चरकाद्यपिवचनविरुद्धं, चरकेणोक्तं हि पूर्वरूपं प्रागुम्पत्तिलक्षणं व्याधेरिति न तु प्रागुत्पन्नलक्षणमित्युक्तम् । सुश्रुतेनाप्युक्तमातुरोपक्रमणीयेऽध्याये । यो भविष्यवाधिख्यापकः स पूर्वरूपसंश इति। उत्पद्यमानस्याल्पखादव्यक्तलक्षणस्य ख्यापकं लिङ्गं न भविष्यप्राधिख्यापकमिति। पराशरेणाप्युक्तं-पूर्वरूपं नाम तत् येन भावी व्याधिविशेषो लक्ष्यते, न तु दोषविशेष इति । अत्र कश्चिद्विप्रतिपद्यते। ननु दोपविशेष इति वचनानर्थक्यम् ; सुश्रुते हुयक्तं-सामान्यतो विशेषात् तु जम्भात्यर्थ समीरणात्। पित्तात् नयनयोर्दाहः कफान्नान्नाभिन्दनमिति, सत्यमेतत् । पराशरेण यदुक्तं येन भाविव्याधिविशेषो लक्ष्यत इत्येतन्मात्रेणैव वचनेन सिध्यति भाव्येव व्याधिविशेषो ज्वरादिलक्ष्यते इति भाविपदेन भविष्यद्वत्तेमानोभयव्याधिज्वरोक्तान्यतिमात्रया। यं विशन्ति विशत्येनं मृत्युज़रपुरःसरः ॥” इति। तथा अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम् ॥” इति । एतद्धि अव्यक्तलक्षणपूर्वरूपाभिप्रायेण। वचनं हि-तदा सर्वज्वराणामसाध्यत्वं स्यात्, यदा पूर्वरूपावस्थायामव्यक्तानि लक्षणानि ज्वरे जाते व्यक्तानि सर्वाणि सर्वत्रैव भवन्ति। तस्मात् पूर्वरूपावस्थाप्रतिनियतपूर्वरूपाभिप्रायेणैवैतद वचनम् । अव्यक्तता च लक्षणानामियमेव, यदल्पत्वेन स्फुटत्वम् । यत् तू पूर्वरूपं दोषदूप्यसंमूर्छनावस्यानियतम्, तद व्याधिमानस्य
For Private and Personal Use Only