________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम् ।
१२१३ पौत्रमणिरत्नादीनि धर्माधर्मप्रभावात् स्वयमेवावगम्यन्ते दूरतोऽदूरतश्च इति। एवंव्याख्यानमविद्वांसो दूषयन्ति ; लक्षणमिदं-स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम् । दोषाः कुव्वन्ति यल्लिङ्गं पूवेरूपं तदुच्यते॥ इति। यक्ष्मिणां घुणतृणकेशपतनानामदृष्टजन्यखेन दोषजन्यवाभावान्न तत् पूर्वरूपस्य लक्षणमिति । केचित् प्रमादिनश्च-सुश्रुते ; श्रमोऽरतिविवणेवं वैरस्यं नयनप्लवः। इच्छाद्वषो मुहुश्चापि शीतवातातपादिषु । ज़म्भाङ्गमद्दों गुस्ता रोमहर्षोऽरुचिस्तमः। अप्रहर्षश्च शीतञ्च भवत्युत्पतस्यति ज्वरे। सामान्यतो विशेषात् तु जम्भात्यर्थ समीरणात् । पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनमिति सामान्यविशेषवचनमालोच्य द्विविधं पूर्वरूपं व्याचक्षते ; सामान्यपूर्वरूपं विशिष्टपूर्वरूपश्च। तच्च पूर्वरूपमव्यक्तलक्षणं, व्यक्तलक्षणन्तु रूपमिति कृता विप्रतिपद्यन्ते। जम्भात्यर्थ समी. रणादित्यत्यर्थवं व्यक्तवं ततो जम्माया रूपखप्रसङ्गः। तत्रान्ये समादधति ; प्रभूताव्यक्तपूर्वरूपसहचरितखेन व्यक्तस्याप्यव्यक्तवं छत्रिणो गच्छन्ति माषराशिरित्यादिवत् । तदसाधु, श्रमादीनां सर्वेषामेव व्यक्तखात्। अन्येषामपि अतिसारादीनां पूर्वरूपाणि किमन्यक्तानि ? सर्वाणि हि व्यक्तानि दृश्यन्ते, तस्मादव्यक्तलक्षणं पूवरूपमित्यसाधु । परे चात्र यदाहुः-श्रमादीनामिवाव्यक्तव्याधिबोधकखाज्जम्भाया अव्यक्तवमित्यप्यसाधु । न हि भविष्यग्राधिरव्यक्तः किं नास्तिवमव्यक्तलं ? नास्ति हि व्याधिः पूर्वरूपे । तच्चेदिष्टमतीतो व्याधिरपि नास्ति, तस्य लक्षणमप्यव्यक्तव्याधिबोधकखादव्यक्तं लक्षणं तच्च पूज्वरूपं भवतु; तस्मादव्यक्तलक्षणं न पूर्वरूपम्। अथाव्यक्तखमीषद्वाक्तखमिति चेन्न, ज्वरातिसारादीनां यानि पूव्वरूपाणि तानि व्यक्तान्येव नेषवाक्तानि न च येन दोषविशेषेणानधिष्ठित उत्पित्सुर्व्याधिलेक्ष्यते तत् पूर्वरूपम्। एकशो द्विशो वा समस्ता वा दोषा हि सञ्चिताः प्रकुपिताः प्रमृताः तत्तत् स्थानं संश्रिताः पूर्वरूपाणि जनयन्ति, तैरुत्पित्सुर्व्यापिलेक्ष्यते दोष
भाविनी वृहिरनुमीयते, तथा रोहिण्युदयं दृष्ट्वा कृत्तिकोदयोऽनुमीयते। तच्च पूर्वरूपं द्विविधएक भाविन्याध्यव्यक्तलिङ्गम्, यदुक्तम्-"भव्यक्त लक्षणं तस्य पूर्वरूपमिति स्मृतम्" इति, तथा “पूर्वरूपं, लिङ्गमव्यक्तमरूपत्वाद् व्याधीनां तद्यथायथम्” इति। द्वितीयन्तु-दोषदृष्यसंमूर्च्छनाजन्यमव्यक्तलिङ्गादन्यदेव, यथा-ज्वरे बालप्रवपरोमहर्षादि। न ह्येतत् पूर्ध्वरूपं ज्वरावस्थायां नियमेन ब्यक्त भवति, किन्तु ज्वरपूर्वकाल एव। यत्र तु व्यक्तं भवति स चासाध्यो मतः। अत एवैवंभूतपूर्वरूपाभिप्रायेणैव अरिष्टे वक्ष्यति,-"पूर्वरूपाणि सर्वाणि
For Private and Personal Use Only