________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१२ चरक-संहिता।
ज्वरनिदानम् पूर्वरूपं प्रागुत्पत्तिलक्षणं व्याधः । एवमोपचोषादिभिरनुमीयते प्रकुपितपित्तमस्य प्रसरति पित्तजो व्याधिः भविष्यतीति, न तु यो व्याधिभविष्यति सोऽनुमीयते । एवमरोचकादिभिरनुमीयतेऽस्य प्रकुपितः श्लेष्मा प्रसरति श्लेष्मजोऽस्य व्याधिभविष्यतीति, न तु यो व्याधिभविष्यति सोऽनुमीयते तयाधिविशेषलिङ्गाभावात् । अस्मिन् क्रियाकाले प्रज्ञापराधात् प्रतिकारमकुर्वतो यो ाधिर्भविष्यति तद्वद्याध्युत्पत्तिस्थानं दोषाः संश्रयन्ति । तदुक्तं सुश्रुतेन–अत ऊद्ध स्थानसंश्रयं वक्ष्यामः ; एवंप्रकुपिताः प्रसृताश्च दोषास्तांस्तान् शरीरप्रदेशानागत्य तांस्तान् व्याधीन जनयन्ति। तत्र स्थानविशेषान् कियत उक्त्वा चोवाच। तेषामेवमभिनिविष्टदोपात् प्रादुर्भविष्यतां व्याधीनां पूर्वरूपप्रादुर्भावस्तत् प्रतिरोगं वक्ष्याम इति । तत्र पूर्वरूपागते चतुर्थः क्रियाकालः। अत ऊर्द्ध वयाधिदर्शनं, तत्र पञ्चमः क्रियाकाल इति। भवति चात्र । सञ्चयश्च प्रकोपश्च प्रसरं स्थानसंश्रयम् । व्यक्ति भेदश्च यो वेत्ति दोषाणां स भवेद्भिषगिति। ___ इत्येवं निदानसेवनानन्तरं चयप्रकोपप्रसरानन्तरं स्थानसंश्रये पूर्वरूपाणि भवन्तीत्यभिप्रायेण निदानलक्षणानन्तरं पूर्वरूपलक्षणमाहपूवेरूपं प्रागुत्पत्तिलक्षणं व्याधेरिति। व्याधेरुत्पत्तेः पूर्व यल्लक्षणं तत् पूर्वरूपं व्याधेः। तच्च प्रतिरोगं वक्ष्यते। सुश्रुते तेषामेवमभिनिविष्टदोषात् प्रादुर्भविष्यतां व्याधीनां पूब्वेरूपप्रादुर्भाव इत्युक्त्या तथाविधस्थानसंश्रितदोषादेव भवन्ति ; भविष्यतो ज्वरस्य पूज्वरूपाणि मुखवैरस्यादीनि भवन्ति घरकेणोक्तानि, मुश्रुतेनोक्तानि श्रमोऽरतिर्विवर्णखमित्यादीनि। यक्ष्मिणाश्च घुणतृणकेशपतनानि तत्स्थानसंश्रितदोषादेव भवन्ति तज्जनकाधर्माधिष्ठितदोषाणामधिष्ठातुरधर्मप्रभावात् । यथा धर्माधर्माभ्यामधिष्ठितपुरुषस्यानन्विच्छतो लभ्यालभ्यादीनि गजतुरगपुत्र
निदानानन्तरीयकरवात् पूर्वरूपादीनां निदानानन्तरं पूर्वरूपादीन्युच्यन्ते। अतः पूर्वरूपलक्षणमाह-पूर्वेत्यादि। मानेः प्राक् प्रागुत्पत्तिः। एतेन उत्पत्तेः पूर्वं यद भविष्यदव्याधेर्लक्षणम्, तत् पूर्वरूपम्। निदानसेवा तु भाविव्याधिबोधिका भवम्त्यपि निदानशब्दगृहीतत्वादेव तथा लक्षणशब्दानभिधेयत्वाश्च न पूर्वरूपशब्देनोच्यते । उक्त अन्यत्र “स्थानसंश्रयिणः कुद्धा भाविष्याधिप्रबोधकम्। लिङ्गं कुर्वन्ति यद दोषाः पूर्वरूपं तदुच्यते ॥" न च वाच्यम्- ८६नुरपक.रयादियमानस्य व्याधेः कथं लक्षणं भवतीति। यतः मेघादपि
For Private and Personal Use Only