________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२० चरक-संहिता।
ज्वरनिदानम् उपशयः पुनहेतुव्याधिविपरीतानां विपरीतार्थकारिणाश्च औषधाहारविहाराणामुपयोगः सुखानुबन्धः। लिङ्गाते प्रादुर्भूतो भावः स्वरूपतो ज्ञायतेऽनेनेति लिङ्गं न बस्वरूपतो येन तदिह लिङ्गं, एवम् आक्रियते ज्ञायतेऽनेनेत्याकृतिः, लक्ष्यते ज्ञायतेऽनेनेति लक्षणं, चिह्नाते ज्ञायतेऽनेनेति चिह्न, संस्थीयते ज्ञायतेऽनेनेति संस्थानं, व्यज्यते शायतेऽनेनेति व्यञ्जनं, रूप्यते ज्ञायतेऽनेनेति रूपम् इति । लक्ष्यतेऽनेनेति सामान्यतो ज्ञानकरणेऽपि लक्षणशब्दो वत्तेते इति शापनार्थं लक्षणे लक्षणशब्दोपादानं कृतम् । यो यथारूपो ज्ञायते येन तस्य तल्लक्षणमिति तस्याप्येकाथेमाकृत्यादिकमिति द्वार्थकखख्यापनार्थ लक्षणशब्दः पुनलिङ्गपर्याये गृहीतः। व्याधेनिं त्रिविधं कस्यचित् प्रश्नेन कस्यचित् प्रत्यक्षेण कस्यचिदनुमानेन। अरोचकादौ मुखरसो ज्ञायते पृष्टेनोक्तपतिवचनात् । तदुपदेशेऽन्तर्भूतम् । दाहादौ स्पर्शनेन्द्रियादिना प्रत्यक्षम् । ज्वरादिज्ञानं सन्तापादिना लिङ्गेनानुमानमित्येवं त्रिविधज्ञानकरणं लिङ्गमिति । तत्रादौ स्वरूपलक्षणेन स्वरूपतो व्याधि शाखा वातादिलिङ्गेन वातजलादिकं जानाति ततः स्वरूपतो ज्ञातस्य वातादिलक्षणं न व्यभिचारि भवति । यस्य हि सन्तापलक्षणो ज्वरो जातो ज्ञातस्तस्य वेपथ्यादीनि लिङ्गानि तं ज्वरं वातजमेव शापयन्ति न खन्यं व्याधि सन्तापलक्षणखाभावात् ; एवं सच्चे एव व्याधिः स्वरूपेण ज्ञातः प्रभेदलिङ्गेन च ज्ञायते नान्यो विज्ञायते खरूपलिङ्गाभावादिति। तस्मादिदं वक्ष्यमाणं न विरुद्धं भवति । लिङ्गमेकमनेकस्य वथैकस्यैकमुच्यते। बहून्येकस्य च व्याधेबहूनां स्युबेहूनि च । ___ अथोद्देशक्रमेणोपशयमाह-उपशयः पुनरित्यादि। हेतुव्याधिविपरीतानामिति। हेतुश्च व्याधिश्चेत्यन्वाचये द्वन्द्वः । हेतुस्त्रिविध उक्तः-असात्म्येन्द्रियार्थसंयोग-प्रज्ञापराध-परिणामभेदात् । न तु ज्वरादीनां दोषा दूष्याश्च । ते तूपदेशे तेषामुपदेशाभावात् । व्याधिश्व प्रागिहैवोक्तः । अतस्त्रिविधा व्याधयः प्रादुर्भवन्ति । आग्नेयाः सौम्या वायव्याश्च ; द्विविधाश्चापरे राजसास्तामसाश्चेति। तथा भवन्ति । उपशयस्तु चिकित्सा, तस्यास्तु पर्यायाश्चिकित्सित एव स्वाधिकारत्वेन वक्तव्याः इति नेह पुनरुक्ताः।
उपशयमाह-उपशय इत्यादि। उपशमनमुपशयः सुखानुबन्ध इत्यर्थः। हेतुना, तथा व्याधिना, तथा हेतुव्याधिभ्याञ्च विपरीता हेतुव्याधिविपरीताः, तेषामौषधाहार.
For Private and Personal Use Only