________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ।
विमानस्थानम् ।
१५६१ अथ शब्दः। शब्दो नाम वर्णसमानायः, स चतुर्विधः, गङ्गाधरः-ननु सिद्धान्ते सति वादिनोः किं कार्यमित्यतो वादो हि शब्दात्मकेन वाक्येन क्रियते शब्दस्तहि ज्ञातव्य इत्यतः शब्द इति. यदुक्त तदाह-अथ शब्द इति। अथ वाक्यज्ञानार्थ शब्दो ज्ञातव्यस्तत्र कः पुनः शब्दो ध्वन्यात्मको वर्णात्मको वेत्यत आह-शब्दो नाम वणेसमाम्नाय इति । शब्दस्तु कणादेनोक्तः। श्रोत्रग्रहणो योऽर्थः स शब्दः। अनित्यश्चायं कारणतः। अभिव्यक्तौ दोषादिति। अपरे खाहुः। नित्यः शब्दोऽनादिखात् भावस्वभावनित्यत्वात् स्वभावसंसिद्धलक्षणवात् इति। तद्यथा-प्राक्सर्गादिदमसदेवासीदेकमेवाद्वितीयम् स खलु सप्रभावगुणनिगूढा शक्तिरेव मूलं ब्रह्म। अतिपरममूक्ष्मातिसूक्ष्मध्वनिप्रभावादतिपरमसूक्ष्मातिसूक्ष्मव्योमरूपा शक्तिः स्वगुणप्रभावं परिणम्य तेजोऽबन्नानि लोहितशुक्लकृष्णवदाभासानि सृष्ट्वा लोहितशुक्लकृष्णवद्भासमाना इति सूक्ष्मध्वन्यवरुद्वातिपरमसूक्ष्मव्योमरूपा वाक् सम्बभूव, सा गायत्री भगवती दुर्गा। गायति च त्रायते चेति गायत्री, सा विद्याशान्तिनिवृत्तिप्रतिष्ठेति चतस्रः शक्तयो भूखा मिलिखैकीभूयानन्तशक्तिमान् परव्योमरूपः परमात्मा परः पुरुषः शिवो बभूव । स त्रिपात् पुरुषस्तस्य ज्योतिःस्वरूपा सा स्वयमजा स सविता नामादिः पुरुषस्तस्य प्रकाशनार्था सा सावित्री तस्यात्मा तुरीयः पाद इति चतुष्पाद्ब्रह्मगायत्रीदानौं सर्गे। सैव गायत्री तेनात्मना जीवेन शिवेन तेजोऽवन्नान्यनुभविश्य सर्च ससज्ज। तत्रादौ तेजोऽबन्नानि परिणम्य किश्चित्स्थूलमतिसूक्ष्ममतीन्द्रियं शब्दं सृजमाना तद्विशिष्टा सती परमा विद्या बभूव कारध्वनिरूपा। तस्माच्चाकारादयो मातृकावर्णा अतिपरमसूक्ष्मा अतीन्द्रिया बभूवुः सा परमा विद्या तद्विशिष्टः परव्योमैव सदाशिवाख्यः प्रथमो ब्रह्मपुरुषः। ब्रह्मविद्या शास्त्रमयः। ततस्तन्मातृकावर्णानाम् अनन्तयोगात् ऋगयजुःसामाथर्वात्मिका ' माया नाम कलाविद्या बभूव सैवाविद्या विद्याविपर्यायविद्या। तद्विशिष्टा ऋग्वेदयजुर्वेदसामवेदाथब्वेवेदाश्चवारो ब्रह्मपुरुषा अविद्या शास्त्रमया बभूवुः। तत्र सामविद्या तालरागमयध्वनिरूपा तालरागोपाहितवाक्यमयध्वनिरूपा च बभूव तद्विशिष्टः सामवेदः। स द्विविधः शब्दो नित्योऽनादिखात् स्वभावसंसिद्धलेक्षणवाद्भाव
चक्रपाणिः-'शब्द'शब्देनेह सङ्केतबलादर्थप्रतीकारवर्णमालोच्यते। आप्तोपदेशशब्दस्तु द्विविधः-परमाप्तप्रमादिप्रणीतस्तथा लौकिकाप्तप्रणीतश्च । 'ऐतिह्य'शब्देन परमाप्तप्रणीतो
For Private and Personal Use Only