________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६२
चरक-संहिता। [रोगभिषजितीय विमानम् स्वभावनित्यत्वात् । स एव द्विविधः शब्दः क्रमेण स्थूलो भूला खल्वव्यक्ते त्रिगुणसाम्यलक्षणेऽनभिव्यक्तरूपे स्थितः। अव्यक्तान्महत्तत्त्वे विद्यात्मक एव द्विविधो व्यवत्तेत। ततोऽहकारे जायमानेऽविद्यात्मको द्विविध एव स्थितः। ततोऽहङ्काराज्जायमाने खाकाशे स एव द्विविधः शब्दोऽनभिव्यक्त एव स्थितः सहजरूपेण स एवाकाशस्यात्मा तद्वियोगादाकाशो नश्यति आकाशस्य नित्यत्वं ततस्थशब्दस्य तदात्मनो नित्यखादिति नित्यः शब्दः। तच्छब्दवदाकाशस्यैकादशांशैकांशस्य स्पर्शमात्र वायावनुप्रवेशादाकाशवाय्वात्मको यात्मको वायुः शब्दस्पर्शयोयोनिर्वातकलाकलीये प्रोक्तः। यस्त्वाकाशस्यात्मा शब्दस्तस्याकाशतो निःसरणस्वभावाभावाद्वाय्वनुप्रविष्टस्य वायुतो निःसरणस्वभावात् । ततो वाय्यादीनां तेजोऽम्बुभूमिषु क्रमेण पूर्वपूर्वस्यानुप्रवेशे स द्विविधः शब्दः क्रमेण स्थूलोऽप्यनभिव्यक्तरूपेण स्थितः। ततः पञ्चभिस्तैभूतैरारब्धेषु द्रव्येष्वभिघातप्रयुक्ताभिव्यक्तिस्वभावः स्थूलः शब्दो यत्तेते। स एव द्विविधः शब्दस्तबीवीणाष्ठाङ्गल्याद्यभिघातकण्ठताल्वाधभिघातात् कारणतो वाय्वादिभूतेभ्य एव जायते न खाकाशाजायत इत्यतस्खनित्यः श्रोत्रणेन्द्रियेण च गृह्यते इत्येवमभिघातात् कारणादाकाशादभिव्यक्तावाकाशस्यानित्यवनश्वरखदोषात् । अथवा शब्दस्याभिव्यक्तिमते वक्ष्यमाणदोषात । इति कणादादीनां सर्वेषामभिप्रायः। अत एवाभिप्रायाद गौतमेनापि शब्दः परीक्षितः। विमर्शहेखनुयोगे च विप्रतिपत्तेः संशयः। आदिमत्त्वादैन्द्रियकखात् कृतकवदुपचाराच्च । न घटाभावसामान्यनित्यवान्नित्येष्वप्यनित्यवदुपचाराच्च। तत्त्वभाक्तयो नाखविभागादव्यभिचारः । सन्तानानुमानविशेषणात् । कारणद्रव्यस्य प्रदेशशब्देनाभिधानान्नित्येष्वप्यव्यभिचार इति । व्याख्यातश्च वात्स्यायनेनैतत् सर्वं तद यथा। आप्तोपदेशः शब्द इति प्रमाणभावे विशेषणमुक्त्वा तं प्रमाणशब्दम् । स च द्विविधो दृष्टाथोऽदृष्टार्थश्चति विभज्य पुनः शब्दो नानाप्रकार इति ज्ञाप्यते। तस्मिन् नानाप्रकारे सत्यानृतदृष्टार्थादृष्टार्थे सामान्येन विचारः क्रियते। शब्दः किं नित्योऽथानित्य इति। विमशेहेखनुयोगे च विप्रतिपत्तेः संशयः। आकाशगुणः शब्दोऽनभिव्यक्तोऽभिव्यक्तिधमेक इत्येके । गन्धादिसहत्तिव्येषु सन्निविष्टो गन्धादिवदवस्थितोऽभिव्यक्तिधम्मेक इत्यपरे शब्दस्य नित्यत्ववादिनः। आकाशगुणः शब्द उत्पत्तिनिरोधधम्मेको
ऽवरुद्धः, लौकिकातप्रणीतश्च शब्दैकदेशरूपः सत्यप्रकारविहितो ज्ञेयः। वर्गसमाम्नाय इति
For Private and Personal Use Only