SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६० | रोगभिषगजितीयं विमानम् चरक संहिता | मुक्तः कम्र्मानुबन्धिकं कुरुते निःस्पृहत्वादिति प्रस्तुतै सिद्धाः कर्म्मफल मोक्ष पुरुषप्र त्यभावाः स्युः । प्रभ्युपगमसिद्धान्तो नाम स यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः । तद् यथा - द्रव्यं प्रधानमिति कृत्वा वक्ष्यामः । गुणः प्रधानमिति कृत्वा वक्ष्यामः कर्म्म प्रधानमिति कृत्वा वक्ष्यामः इत्येवमादिश्वतुर्व्विधः सिद्धान्तः ॥ ३२ ॥ Sथाः सिध्यन्ति । न तैर्विना सोऽर्थः सिध्यतीति । स्वयञ्श्वोदाहरति । यथेत्यादि । मुक्त आनुवन्धिकं कम्पं न कुरुते निःस्पृहत्वादिति पूर्व्वं प्रस्तुते अनुषङ्गिण एते कर्म्मफलमोक्षपुरुषप्रेत्यभावाः सिद्धा भवन्ति । न चैतैर्विना मुक्त आनुबन्धिकं कम् न कुरुते इत्येषोऽर्थो न सिध्यतीत्यत्यधिकरणसिद्धान्तः । अथाभ्युपगमसिद्धान्तो नामेत्यादि । यमर्थमसिद्धमपरीक्षितमनुपदिष्टं गुरुणाऽथाहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः सोऽर्थोऽभ्युपगमसिद्धान्तः । तद्यथेत्यादिनोदाहरति । द्रव्यं प्रधानं कृत्वा वक्ष्याम इत्यादि । गौतमेनाप्युक्तम् अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः । इति । व्याख्यातञ्च वात्स्यायनेन । यत्र किञ्चिदर्थजातमभ्युपगम्यते, अस्तु द्रव्यं शब्दः । स तु नित्योऽथानित्य इति । द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेषः परीक्ष्यते। सोऽभ्युपगमसिद्धान्तः । स्वबुद्धातिशयचिख्यापपिया परबुद्धवशानाच्च वादिना यदश्रुतादिकं तद्वक्तु प्रवर्त्तते इति । इति चतुर्व्विधः सिद्धान्त उक्तः ॥ ३२ ॥ , भिधीयमानान्यपि । अनुबभ्रातीति अनुबन्धिकं जन्मान्तरेऽप्यनुगामीत्यर्थः । मुक्त इति प्रत्यासनमुक्तिः सर्व्वथा मुक्तस्त्वशरीरत्वात् कर्म न करोति । किंवा अनुबन्धिकं विशेषेणेति । सिद्धा इत्यादि । यदीह कर्म्मफलं न स्यात्, तदा मुमुक्षुणापि क्रियते कर्म्मफलोद विग्नो ह्ययं न तत् कर्म करोति । यदि च मोक्षो न स्यात् तदा 'मुक्तः' इति वचनं न स्यात्, तथा यदि च पुरुषो न स्यात्, तदा कस्य वा बन्धः कस्य वा मोक्षः स्यात्, तदा कर्म्मणो जन्मान्तरानुबन्धित्वमनुपपन्नं स्यादिति न युक्तमिति वदता अधिकरणबलादेव सिद्धाः सिद्धान्तत्वेन कर्मफलादयः स्वीकृता भवन्ति । असिद्धमित्यस्य विवरणम् - अपरीक्षितमित्यादि ॥ ३२ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy