________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ] विमानस्थानम् । १५८६ साध्यानां व्याधीनामिति। प्रतितन्त्रसिद्धान्तो नाम तस्मिन् तस्मिन्नैकैकस्मिंस्तन्त्रे तत्तत् प्रसिद्धम्। यथा अन्यत्राष्टौ रसाः षड्त्र रसाः, पञ्चेन्द्रियाण्यत्र अन्यत्र पड़िन्द्रियाणि तन्त्रे । वातादिकृताः सर्वे विकारा यथानान्यत्र वातादिकृता भूतकृताश्च प्रसिद्धाः। अधिकरणसिद्धान्तो नाम स यस्मिन्नधिकरणे प्रस्तूयमाने सिद्धान्यन्यान्यपि अधिकरणानि भवन्ति। यथा न सर्वस्मिन्नायुर्वेदतन्त्रे प्रसिद्धः। इति सर्वतत्रसिद्धान्तः। प्रतितत्रसिद्धान्तो नामेत्यादि। तस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रे यद् यत् प्रसिद्धं तत् तत् प्रतितन्त्रसिद्धान्तः । तदुदाहरति । अन्यत्रायुर्वेदतन्त्रेऽष्टौ रसा मधुराम्ललवणकटुतिक्तकषायाव्यक्तक्षारा इति तत्र सिद्धाः। अत्र तन्त्रे षड़ रसा मधुराम्ललवणकटुतिक्तकषाया इति सिद्धाः। गौतमेनाप्युक्तम्-समानतब्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्त इति। व्याख्यातञ्च वात्स्यायनेन। यथा नासत आत्मलाभः । न सत आत्महानम् निरतिशयाश्चेतनाः। देहेन्द्रियमनासु विषयेषु तत्तत्कारणेषु च विशेषा इति साङ्खानाम् । पुरुषकम्मे निमित्तो भूतसर्गः, कम्मेहेतवो दोषाः प्रवृत्तिश्च स्वगुणविशिष्टाश्चेतना असदुत्पद्यते उत्पन्न निरुध्यते इति योगिनामिति । एतच्चरकतन्त्रसमानतन्त्रसिद्वाः पड़ रसाः पञ्चेन्द्रियाणि वातादिकृताः सङ्घ रोगाः प्रसिद्धाः । परतत्रासिद्धास्तत्र तत्र परतन्त्रेऽष्टौ रसाः पड़िन्द्रियाणि वातादिकृता भूतकृताश्च सर्वे रोगा इति प्रतितत्रसिद्धान्तः । अथाधिकरणसिद्धान्तो नामेत्यादि। यस्मिन्नधिकरणे प्रस्तूयमानेऽन्यान्यप्यधिकरणानि सिद्धानि भवन्ति, सोऽधिकरणसिद्धान्तः। गौतमेनोक्तश्च-यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्त इति । व्याख्यातञ्च वात्स्यायनेन । यस्यार्थस्य सिद्धावन्यऽर्था अनुषज्यन्ते, न तैविना सोऽर्थः सिध्यति, तेऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः। यथा देहेन्द्रियव्यतिरिक्तो शाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्रानुषङ्गिणोऽर्था इन्द्रियनानावं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्मानसाधनानि। गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम् नियतविषयाश्चेतना इति पूर्वाथसिद्धावेतेप्रतितन्त्रसिद्धान्ते पड़ रसा अष्टौ रसा इति परस्परविरुद्धेऽपि वादे स्वयुक्तिव्यवस्थापनबलात् तु सिद्धान्तत्वं ज्ञेयम् । यस्मिन्नित्यादौ अधिकरणे इत्यभिधेयप्रधानत्वे। अन्यान्यपीति साक्षादन
For Private and Personal Use Only