________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८८
चरक-संहिता। रोगभिषगजितीयं विमानम् सर्व्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्त इति। . तत्र सर्वतन्त्र सिद्धान्तो नाम तस्मिंस्तस्मिन् सर्वस्मिरतन्त्रे प्रसिद्धम् । सन्ति निदानानि, सन्ति व्याधयः, सन्ति सिद्धापायाः
अपरस्वाह-वह्निरम्लस्तेजोऽम्बुबहुलपश्चभूतात्मकखात्, यथा तिन्तिड़ी। यथा च तिन्तिड़ी तेजोऽम्बुबहुलपञ्चभूतात्मिका सा चाम्ला तथा वह्निस्तेजोऽम्बुबहुलपश्चभूतात्मकस्तस्मादम्ल इति। इत्युभाभ्यां पक्षाभ्यां प्रमाणैर्विमृश्यावधाय्यते वहिर्न मधुरो नाम्लः इति स निणयः सिद्धान्तः। अत्रेदमवधातव्यं प्रत्यक्षेऽर्थावधारणं निर्णयः परीक्षाविषये तु विमृश्य पक्षपतिपक्षाभ्यामर्थावधारणं निर्णयः। शास्त्रवाद च विमर्शवज पक्षपतिपक्षाभ्यामर्थावधारणं निर्णय इति। सिद्वान्तः कतिविध इत्यत आह–स तु चतुर्विध इत्यादि । चातुर्विध्यं सिद्धान्तस्याह-सर्वेत्यादि। सव्र्वतत्रसिद्धान्तः प्रतितत्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्त इतीति। गौतमेनाप्युक्तम्तत्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्त इति । वात्स्यायनेन व्याख्यातञ्च । इदमित्थम्भूतञ्चेत्यभ्यनुज्ञाय मानमर्थजातं सिद्धम् सिद्धस्य संस्थितिः सिद्धान्तः संस्थितिरित्थम्भावव्यवस्था धर्मनियमः, स च पक्षप्रतिपक्षाभ्यामवधारणं स खल्वयं तत्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः। तत्रार्थसंस्थितिस्तत्रसंस्थितिः। तत्रमितरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्। अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहस्तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः। तत्रभेदात् तु. स खलु चतुर्विधः। सर्वतत्रप्रतितत्राधिकरणाभ्युपगमसंस्थित्यर्थान्तराभावात् इति । तत्रैताश्चतस्रः संस्थितयोऽनर्थान्तरभूता इति । . अथ क्रमेण तानाह-तत्र सव्वंतत्रसिद्धान्तो नामेत्यादि। तस्मिंस्तस्मिन् सर्वस्मिंस्तन्त्रे तत् तत् प्रसिद्धं यद् यत् स सर्वतत्रसिद्धान्तो न तु एकैकस्मिन् प्रसिद्धं यद् यदिति । गौतमेनाप्युक्तम्। सर्वतत्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सव्वंतत्रसिद्धान्त इति। व्याख्यातं वात्स्यायनेन। यथा घ्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादीनि भूतानि प्रमाणैरथस्य ग्रहणमिति । स्वयमुदाहरति । सन्तीत्यादि। सन्ति निदानानि । इत्येवमादिः
For Private and Personal Use Only