SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः 4म अध्यायः ] विमानस्थानम्। १५८५ __ अथोत्तरम् । उत्तरं नाम साधम्मोपदिष्टे हेतौ वैधमावचनम्, वधम्मोपदिष्टे वा हेतौ साधर्म्यवचनम् । यथा हेतुसधर्माणो विकाराः, शीतकस्य हि व्याधेहेतुभिः साधम्मा हिमशिशिरवातसंस्पर्शा इति ब्रुवतः परो ब्रूयात्-हेतुविधाणो विकाराः; ज्ञाने प्रत्यासन्नो न वर्थस्य साधक इति तस्मानावयवः । शक्यप्राप्ति प्रमाणानि प्रमातुः प्रमेयाधिगमार्थं न तु वादिनोर्वाद साधकस्य वाक्यस्य भागरूपेण युज्यते प्रतिज्ञादिवदिति तस्मात् शक्यप्राप्ति वयवः। प्रयोजनश्च तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलं नैकदेशस्तस्मात् साधकवाक्यस्य नावयव इति। संशयव्युदासश्च प्रतिपक्षोपवर्णनं वादिना तत्पतिषेधेन तत्त्वज्ञानाभ्यनुशाकरणार्थं न तु साधकवाक्यार्थसाधनार्थ तस्मान्न साधकवाक्यस्यैकदेश इत्यतः पञ्चैव प्रतिज्ञाहेतूदाहरणोपनय निगमनान्यवयवा इति गौतमेनोक्तमिति। इति स्थापना प्रतिष्ठापना च व्याख्याता भवति ॥३०॥ गङ्गाधरः-नन्वेवं वादिप्रतिवादिभ्यां हेलादिभिः स्वस्वप्रतिज्ञायां स्थापितायां सत्यां किं कार्यमित्यत उक्तम् उत्तरमिति यत् तदुच्यते--अथोत्तरमिति। वादिप्रतिवादिभ्यां स्वस्वपक्षं हेलादिभिः स्थापयिखा पुनरुत्तरं कार्यम् । तत् कीदृशमित्यत आह-उत्तरं नामेत्यादि। प्रतिवादिना साधम्म्योपदिष्टे हेतौ कार्यस्य साधणोपदिष्टे हेतौ सति वैधय॑वचनं कार्यवैधम्र्येण हेतोर्वचनमुत्तरं नाम । तथा वैधयोपदिष्टे वा हेतो कार्यस्य वैधर्मेणोपदिष्टे हेतौ सति साधर्म्यवचनं कार्यस्य साधर्मेण हेतोर्वचनमुत्तरं नामोच्यते। उदाहरति-यथेत्यादि। हेतुसधर्माणो विकारा इति वादिना साधम्म्योक्तो हेतुः प्रदश्यते। शीतकस्येत्यादि। हि यस्मात् । शीतकस्य शीतनिमित्तजस्य व्याधेः शीतलैहे तुभिः समानधर्मा हिमशिशिरवातसंस्पर्शा वृद्धिहेतव इति ब्रुवता वादिनः परः प्रतिवादी ब्रयात् चक्रपाणिः-- उत्तरमित्यादि। 'उत्तर'शब्देनेह जात्युत्तरमुत्तराभासमीप्सितम्। यतोऽसाधकसाधम्म्यमात्रप्रत्यवस्थानमेवोत्तरविवरणे दर्शयिष्यति । उक्तञ्च न्याये-“साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः" इति, एतच्च साधर्म्यवैधम्र्योदाहरणार्थम् । तेन न्यायोक्ता जात्युत्तरा उत्कर्षापकर्षसमुदया अप्यनुक्ता इहैवानुबोव्याः । हेतुसघर्माण इति हेतुसदृशाः। शीतकः शीतम्. हिमशिशिरवातगताः संस्पर्शाः। शीतस्य हेतुभिः साधयमिति कृत्वा योजना। तेन हिमादीनां १९९ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy