________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..
.
१५८६
चरक-संहिता। रोगभिषगजितीय विमानम् यथा शरीरावयवानां दाहौष्ण्यकोथप्रपचने हेतुभिधम्मा हिम. शिशिरवातसंस्पर्शा इत्येतत् सविपर्ययमुत्तरम् ॥ ३१॥ ___ अथ सिद्धान्तः। सिद्धान्तो नाम स यः परीक्षकैर्बहुविधं परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते निर्णयः। स तु चतुर्विधः; हेतुविधाणो विकारा इति। कथमित्यत आह-यथेत्यादि। शरीरावयवानां दाहाणादौ ये हेतवस्तैहेतुभिधर्म्यमुष्णनिमित्तस्य व्याधे द्धेः प्रशमनहेतवो हिमशिशिरवातसंस्पर्शा इति। साधम्र्योक्ते हेतावुदाहृत्योत्तरं वैधयोक्ते हेतावुत्तरमुदाहरति। एतत् सविपर्ययमुत्तरमिति। हेतुविधर्माणो विकारा इत्युक्ते हेतुसघर्माणो विकारा इत्युत्तरं सविपर्ययमिति। तथा च वादे । नित्यः पुरुषोऽकृतकखादित्युक्त वादिना परो ब्रयात् यथा घटः। यथा घटः कृतकः स चानित्यो न तथा पुरुषस्तस्मानित्य इति ॥३१॥
गङ्गाधरः--इत्येवमुत्तरे प्रोक्त वादिभ्यां किं कार्यमित्यत उक्तम्-सिद्धान्त इति यत् तत् प्रोच्यते-अथ 'सिद्धान्त इति। उत्तरानन्तरं सिद्धान्तः कार्य इति। कः पुनः सिद्धान्त इत्यत आह-सिद्धान्तो नामेत्यादि। परीक्षकैर्हेतुभिर्बहुविध वाद्यमर्थं परीक्ष्य साधयितु यो निर्णयः स्थाप्यते स सिद्धान्तो नामोच्यते। निर्णयश्चोक्तो गौतमेन। विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः इति। स्थापनापतिषेधौ यौ तौ साधनोपालम्भावुच्येते तो पक्षप्रतिपक्षाश्रयो व्यतिषक्तो परस्परसंसक्तो खल्वनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षावुच्यते। ताभ्यामर्थावधारणं तयोरेकतरस्य निवृत्तिहेतुप्रदर्शनेनैकतरस्यावस्थानं यस्यावश्यम्भावि स्यादवस्थानं स निर्णय इति ।
हेतूनां ये शीतस्पर्शास्ते शीतकेऽपीति, संस्पर्शाः साधर्म्य हेतुविकारयोरिति । परो बयादिति प्रतिवादी वदेत्। दाहौष्ग्यकोथप्रपचने विकारे इति शेषः, हेतुपैसादृश्यं हेतुवैधर्म्यम् । हिमादिसंस्पर्शाः हिमादिजन्यशरीरावयवदाहादिविकारस्पर्शे उष्णे विसरशा इति वाक्यार्थः। एवं तावत् वैधोक्ते हेतौ विपर्ययाद यदा हेतुसाम्यमुत्तरं क्रियते, तदा विपर्ययो भवति । एवमेवोदाहरण. इयं सविपर्ययं सम्पूर्णमुत्तरं भवतीत्यर्थं ॥३॥
चक्रपाणिः-साध्यसाधनोदाहरणेन बहुविध परीक्षितं हेतुभिः साधयित्वा स्थाप्यत इत्यस्य विवरणम्-निर्णय इति। निर्णीयत इति निर्णयः। एतच्च सिद्धान्तलक्षणमभ्युपगमसिद्धान्ते नास्ति। तेन तत्र बुद्धिव्यवस्थितत्वेन चोक्तं सिद्धान्तं ज्ञेयम् । सिद्धान्तं विभजते-स चेत्यादि ।
For Private and Personal Use Only