________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८४
चरक-संहिता। रोगभिषगजितीयं विमानम् स्यात्। कस्य चापदेशात् प्रतिज्ञायाः पुनव्वेचनं निगमनं स्यादिति । असत्युदाहरणे केन साधम्म्यं वैधयं वा साध्यसाधनमुपादीयेत । कस्य वा साधम्यवैधय॑वशादुपसंहारः प्रवर्त्तत। उपनयश्चान्तरेण साध्येऽनुपसंहृतः साधको धर्मो नार्थ साधयेत् । निगमनाभावे चानभिव्यक्तसन्धानानां प्रतिक्षादीनामेकार्थेन प्रवर्तनम् । तथेति प्रतिपादनं कस्येति। अथावयवार्थः साध्यस्य धर्मस्य धम्मेिणा सम्बन्धोपादानं प्रतिशाथः। उदाहरणेन समानस्य विपरीतस्य वा धम्मस्य साधकभाववचनं हेयर्थः। धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्र उदाहरणार्थः। साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः। उदाहरणस्थयोधर्मयोः साध्यसाधनभावोपपत्तो साध्ये विपरीतप्रसङ्गप्रतिषेधार्थ निगमनम्। न चैतस्यां हेतूदाहरणविशुद्धौ सत्यां साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाच्च। इति निग्रहस्थानबहुख प्रक्रमते। अव्यवस्थाप्य खल साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते। व्यवस्थिते तु खल धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुखेनोपमानं न साधर्म्यमात्रस्य न वैधय॑मात्रस्य वेति। प्रतिज्ञासाध्यवचनमित्युक्त्वा अथ स्थापना, स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापनेति वचनेन ज्ञापितं वादिनोर्वादवाक्यस्य प्रतिज्ञादयः पञ्चैवावयवा न त्वधिका इति। तत्रैके खाहुदिनोदिवाक्यस्य ते च प्रतिज्ञादयः पञ्च पञ्च चापरे जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयव्युदासा दशैतेऽवयवा भवन्ति। जिज्ञासा ह्यप्रतीयमानेऽर्थे संशयिते च प्रवर्तिका। योऽर्थस्वप्रतीयमानः संशयितो वा तमर्थ शातुमिच्छति तत्त्वतो हि शाखा तमर्थ हास्यति वोपादास्यति वोपेक्षिष्यते वेति। हानोपादानोपेक्षान्यतमा बुद्धिः तत्त्वज्ञानाद्भवति। तदर्थ जिज्ञासते। संशयश्च जिज्ञासाधिष्ठानम्। यत्रार्थ संशयः स्यात् तमर्थं जिज्ञासते। शक्यप्राप्तिश्च प्रमातुः प्रमेयार्थाधिगमार्थ प्रमाणानि । प्रयोजनं तत्त्वावधारणमधारणतो हि हेयं जहाति वोपादेयमुपादत्ते वोपेक्ष्यं वोपेक्षते। संशयव्युदासः प्रतिपक्षोपवर्णनं तत् प्रतिषेधार्थ भवति । इति। अत्र सिद्धान्त उक्तो वात्स्यायनेन। प्रतिज्ञादयः पञ्चैवार्थसाधकत्वाद् वादिनोर्वादे साधकवाक्यस्यावयवा भागा एकदेशा इत्यनन्तरम् । न तु जिज्ञासादयः साधकवाक्यस्यावयवाः अर्थसाधकखाभावात् । जिज्ञासा ह्यप्रतीय. मानस्यार्थस्य संशयितस्य च पदार्थस्य प्रत्ययार्थ प्रवर्तिका न तु साधिका। तस्मात् साधकवाक्यस्य नावयवः। संशयोऽपि व्याहतधर्मोपघातार्थ तत्त्व
For Private and Personal Use Only