________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१५८३ उपनयः । साध्यवैधात् तद्धर्मभाविदृष्टान्तापेक्षो न तथेत्युपसंहारश्च साध्यस्योपनय इति। गौतमेनाप्युक्तम्। उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय इति व्याख्यातञ्च वात्स्यायनेन । उदारणापेक्ष उदाहरणतन्त्र उदाहरणवशः । वशः सामर्थ्यम् । साध्यसाधर्म्ययुक्त खलूदाहरण स्थाल्यादिद्रव्यम् उत्पत्तिधर्मकसमनित्यत्वञ्च दृष्टम् । तथा शब्द उत्पत्तिधम्मक इति साध्यस्य शब्दस्योत्पत्तिधम्मकलमुपसंहियते। साध्यवैधयेयुक्त पुनरुदाहरणे आत्मादिद्रव्येऽनुत्पत्तिधर्मकखम्। नित्यवञ्च दृष्टम्। न च तथा शब्द इति अनुत्पत्तिधर्मकवस्य प्रतिषेधेनोत्पत्तिधर्मकसमुपसंहियते। तदिदमुपसंहारद्वैतमुदाहरणद्वतं भवति। उपसंहियतेऽनेनेत्युपसंहारो वेदितव्य इति। द्विविधस्य हेतोद्वि विधस्योदाहरणस्योपसंहारद्वैतञ्च समानमिति । अथ निगमनञ्चोक्तं यत् तस्मानित्य इति स्थापनायां तस्मादनित्य इति प्रतिष्ठापनायां ताभ्यामेवं ज्ञापितम्। यद्धेखपदेशात् पतिशायाः पुनर्वचनं तनिगमन मिति। गौतमेनाप्येवमुक्तम्। हेलपदेशात् प्रतिक्षायाः पुनव्वेचनं निगमनमिति। व्याख्यातश्च वात्स्यायनेन । साधम्म्योक्ते वैधयोक्ते वा यथोदाहरणमुपसंहियते। तस्मादुत्पत्तिधर्मकलादनित्यः शब्द इति निगमनम्। निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनमिति । निगम्यन्ते समथ्येन्ते संबध्यन्ते। तत्र साधयोक्ते तावद्धतौ वाक्यम् । अनित्यः शब्दः इति प्रतिशा। उत्पत्तिधर्मकलादिति हेतुः। उत्पत्तिधर्माकं स्थाल्यादिद्रव्यमित्युदाहरणम्। तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः। तस्मादुत्पत्तिधर्मकखादनित्यः शब्द इति निगमनम्। वैधयोक्तेऽपि अनित्यः शब्द उत्पत्तिधर्म कखात् । अनुत्पत्तिधर्मकमात्मादिद्रव्यं नित्यं दृष्टं, न च तथानुत्पत्तिधर्मकः शब्द इत्युपनयः तस्मादुत्पत्तिधर्मकवादनित्यः शब्द इति। अवयवसमुदाये च वाक्ये सम्भूयेतरेतराभिसम्बन्धात् प्रमाणान्यर्थं साधयन्तीति । सम्भवस्तावत् शब्दविषया प्रतिज्ञा। आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानात् । अनृषेश्च खातन्त्रानुपपत्तेः अनुमानं हेतुः उदाहरणे सादृश्यप्रतिपत्तेः। तत्रोदाहरणं भाष्ये व्याख्यातम्। प्रत्यक्षविषयमुदाहणम्, दृष्टेनादृष्टसिद्धेः। उपमानमुपनयस्तथेत्युपसंहारात्, न च तथेत्युपमानधर्मप्रतिषेधे विपरीतधम्मोपसंहारसिद्धः। सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनमिति । इतरेतराभिसम्बन्धोऽपि । असत्यां हि प्रतिज्ञायामनाश्रया देखादयो न प्रवत्तेरन् । असति हेतौ कस्य साधनभावः प्रदर्श्यते । उदाहरणे साध्ये च कस्योपसंहारः
For Private and Personal Use Only