________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
१५८२
चरक संहिता |
[ रोगभिषग्जितीयं विमानम्
उपनयो निगमनञ्चोक्तं स्थापनाप्रतिष्ठापनाव्याख्यायाम् ॥३०
इष्यते । तत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् । तच्च भूखा न भवति, आत्मानं जहाति निरुध्यते इत्यनित्यम् । एवमुत्पत्तिधर्म्मकं साधनम्, अनित्यत्वं साध्यम् । मेकस्मिन् द्वयोर्धर्म्मयोः साध्यसाधनभावः साधम्र्म्यादिव्यवस्थितम् उपलभ्यते । तं दृष्टान्ते उपलभमानः शब्दऽप्यनुमिनोति । शब्दोऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदित्युदाहियते । तेन धर्म्मयोः साध्यसाधनभाव इति । उदाहरणं तद्विपर्ययाद्वा विपरीतम् । उदाहरणमिति प्रकृतम् । साध्यवैधम्र्म्यात् तद्धर्म्मभावी दृष्टान्तो वा विपरीतमुदाहरणमिति । अनित्यः शब्दः, उत्पत्तिधर्मकत्वात् । यथाऽनुत्पत्तिधर्मकं नित्यमात्मादि। सोऽयम् आत्मादिदृष्टान्तः साध्यवैधम्र्म्यादनुत्पत्तिधर्म्मकत्वात् तद्धर्म्मभावी । योऽसौ साध्यस्य धर्मोऽनित्यत्वं शब्दस्य स तस्मिन् भवतीति । अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्म्म कत्वस्याभावादनित्यत्वं न भवतीत्युपलभमानः शब्दे विपर्य्ययम् अनुमिनोति । उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इत्युदाहरणसाधम्म्यतस्य हेतोः साध्यसाधम्र्म्यात् तद्धर्म्मभावी दृष्टान्त उदाहरणम् । उदाहरणवैतस्य हेतोः साध्यवैधम्र्म्याच्च तद्धर्म्मभावी दृष्टान्त उदाहरणम् । पूर्व्वस्मिन् दृष्टान्ते यो धम्य साध्यसाधनभूतौ पश्यति, साध्येऽपि तयोः साध्यसाधनभावमनुमिनोति । उत्तरस्मिन् दृष्टान्ते ययोर्धर्म्मयोरेकस्याभावादितरस्याभावं पश्यति तयोरेकस्याभावादितरस्याभावं साध्येऽप्यनुमिनोति, तदेतद्धेखाभासेषु न सम्भवतीति । अहेतवो हेत्वाभासास्तदिदं तूदाहरणयोः सामर्थ्यं परममृक्ष्मं दुःखबोधं पण्डितैरुप वेदनीयमिति ।। २९ ।।
I
गङ्गाधरः–क्रमिकत्वादुपनयनिगमने आह - उपनय इत्यादि । स्थापनाव्याख्यायामुपनयो निगमनश्चोक्तम् । यथा नित्यः पुरुषोऽकृतकत्वात्, यथा.काशम् । उपनयो यथा चाकृतकमाकाशं तच्च नित्यं तथा पुरुष इति । निगमनं तस्मान्नित्य इति । प्रतिष्ठापनाव्याख्यायाञ्चोपनयो निगमनञ्चोक्तम् । यथा अनित्यः पुरुष ऐन्द्रियकत्वात् । दृष्टान्तो यथा घटः । उपनयो यथा घट ऐन्द्रियकः, स चानित्यस्तथाचायमिति । निगमनं तस्मादनित्य इति । इत्येवं व्याख्यानेन ज्ञापितमिदं साध्यसाधम्र्म्यात् तद्धर्म्मभाविदृष्टान्तापेक्षस्तथेत्युपसंहारः साध्यस्य अग्नादयश्च लोकप्रसिद्धत्वेनोदाहृताः । तेन एतेषामपि साध्यसाधनोदाहरणमादित्यादिवत् क्वचिद् द्वन्द्वे ऽयमयमिवेति दर्शयति ॥ २९/३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only