________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्।
१५८१ पृथिवी आदित्यः प्रकाशक इति, यथा आदित्यः प्रकाशकस्तथा साड्य ज्ञान प्रकाशकमिति ॥ २६ ॥ वर्णनीयेऽर्थे मूर्खा लोकसाम्यमनतीता नैसर्गिक वैनयिक बुद्धातिशयमप्राप्ता लौकिका उच्यन्ते तद्विपरीताः परीक्षकाः प्रमाणैरथं परीक्षितु प्रभवन्ति । ते तु विद्वांसः समं बुध्यन्ते तथाविधं वर्णा यो वर्णयति स दृष्टान्तः सर्वत्र गृह्यते। तत्र यो दृष्टान्तः साध्यसाधयंवैधाभ्यां तद्धम्प्रभावी स इह स्थापनाप्रतिष्ठापनयोग्राह्यः। तत्र च यः साध्यसाधात् तद्धर्मभावी स दृष्टान्तो, यस्तु साध्यवैधात् तद्धर्मभावी स व्यतिरेकी दृष्टान्त इति द्विविध एव दर्शितः। स्थापनाप्रतिष्ठापनाभ्यामन्यत्र यथा दृष्टान्तस्तमुदाहरति । यथाग्निरुष्णः। द्रवमुदकम् । स्थिरा पृथिवी। आदित्यः प्रकाशक इति मूर्खाश्च बुध्यन्ते विद्वांसश्च बुधयन्ते। तत्र यथादित्यः प्रकाशकस्तथा साङ्खा ज्ञानमिति। आदित्य इति मूर्ख विदुषां बुद्धिसाम्यविशिष्टं वर्णन साङ्क्षय ज्ञानं प्रकाशकमिति वर्णयतीति दृष्टान्त उच्यते। गौतमेनाप्युक्तम् । लोकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः। इति। व्याख्यातच वात्स्यायनेन । लोकसाम्यमनतीतालौकिकानैसर्गिकं वैनयिक बुद्धातिशयम् अप्राप्तास्तद्विपरीताः परीक्षकास्तकण प्रमाणैरथं परीक्षितुमर्हन्तीति । यथायमर्थ लौकिका बुध्यन्ते तथा तं परीक्षका अपि। सोऽर्यो दृष्टान्तः। दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति। दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति। अवयवेषु चोदाहरणाय कल्पते इति। स यथोदाहरणायावयवेषु कल्पते तथोक्तं पुनस्तत्रैव। साध्यसाधात् तद्धर्मभावी दृष्टान्त उदाहरणम् तद्विपर्ययाद्वा विपरीतम्। व्याख्यातञ्चैतद्वात्स्यायनेन । साध्येन साधर्म्य समानधर्माता। साध्यसाधात् कारणात् तद्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धमः तस्य साध्यस्य। साध्यश्च द्विविधम् । धर्मिविशिष्टो वा धर्मों यथा शब्दस्यानित्यत्वम्। धर्म विशिष्टो वा धम्मी, यथा अनित्यः शब्द इति। इहोत्तरं तद्ग्रहणे न गृह्यते। कस्मात् ? पृथग्धर्मवचनात्। तस्य धर्मस्तद्धर्मस्तस्य भावस्तद्भावः, स यस्मिन् दृष्टान्ते वर्त्तते स दृष्टान्तः साध्यसाधात् तद्धर्मभावी भवति; स चोदाहरणम् भावः। अथ बुद्धिसाम्यमाने न साध्यसाधर्मावभावादिष्टत्वात् दृष्टान्तो भवतीत्याह-यो वयं वर्णयति यः साध्यं साधयतीत्यर्थः । प्रसिद्धसाध्यसाधनसम्बन्धश्च दृष्टान्तः साध्यं साधयतीति भावः ।
For Private and Personal Use Only