________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८०
चरक-संहिता। । रोगभिषजितीयं विमानम् ... अथ दृष्टान्तः । दृष्टान्तो नाम स यत्र मूर्खविदुषां बुद्धिसाम्यं तेनैव यो वण्यं वर्णयतीति । यथासिरुष्णो द्रवमुदकं स्थिरा उपलभेरथस्तु प्रमाबुद्धानुकूलगुणदोषविचारादिव्यापारः। हानोपादानोपेक्षा बुद्धिः प्रमा, फलं तदुपलब्धिकारणं व्यवसायात्मिका निश्चयबुद्धिः प्रत्यक्षादिः । तस्या निश्चयात्मिकाया बुद्धेापारो वस्तूनां व्यवसातव्यानां गुणतो दोषतो विचारस्तव्यापारवत्त्वात् प्रत्यक्षादिव्यवसायात्मकबुद्धीनां करणत्वं तदेव व्यापारवत्त्वं प्रत्यक्षादीनामुपलब्धिकारणत्वमिति। तद्विचारादिजनकव्यापारवत्त्वादात्मा कर्ता। न तु प्रत्यक्षाद्यन्यतमत्वमुपलब्धिकारणवं प्रमाणवम् । सर्वप्रमाणेष्वसत्त्वात् सामान्यं हि तन्न भवति, प्रमाणवं हि सर्वप्रमाणनिष्ठ सामान्यं न तु विशेषः, प्रत्यक्षाद्यन्यतमत्वन्तु विशेष इति। यथा-वह्निमान् पर्वतो धूमादिति प्रत्यक्षो हेतुधूमः। अयमातुरो मन्दाग्निखादिति जरणशक्त्यानुमितो मन्दाग्निहेतुः। नित्यः पुरुषोऽकृतकलादित्यैतिह्यो हेतुरकृतकत्वम् । अस्य मुखं कान्ततमं चन्द्रोपमखादित्यौपम्येन हेतुरिति । एतदुपलब्धिकारणचतुष्टयं दृष्टान्तसाधर्म्यवैधाभ्यां साध्यसाधनमिति। तच्च गौतमेनाप्युक्तम्। उदाहरणसाधात् साध्यसाधनं हेतुस्तथा वैधात् । व्याख्यातञ्च वात्स्यायनेन । उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः। साध्ये प्रतिसन्धाय धम्म मुदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः। अनित्यः शब्द उत्पत्तिधर्मकखादिति। उत्पत्तिधर्मकमनित्यं दृष्टमिति। किमेतावद्धतुलक्षणमिति नेत्युच्यते। किं तहि तथा वैधात् । उदाहरणवैधाच्च साध्यसाधनं हेतुः। कथम् । अनित्यः शब्द उत्पत्तिधर्मकखात्। अनुत्पत्तिधर्मकं नित्यं यथात्मादिद्रव्यमिति ॥२८॥ .. गङ्गाधरः-अथ क्रमिकबाद दृष्टान्तं लक्षयति। अथ दृष्टान्त इत्यादि। यत्र मूर्ख विदुषां धुद्धिसाम्यं यो वर्ण वर्णयति स दृष्टान्तो नामोच्यते। यत्र स्यात्। उपलब्धिकारणमिति व्यापकस्य साध्यस्योपलब्धिकारणम्। तत्तत्त्वमिति तलिङ्गमित्यर्थः ॥ २८ ॥
चक्रपाणिः-मूर्खविदुषां बुद्धिसाम्यमित्यनेन लौकिकानां पण्डितानाञ्च योऽर्थोऽविवादसिद्धः, स दृष्टान्तो भवति, न पण्डितमात्रसिद्धः। योऽपि लोकप्रसिदो दृष्टान्त उच्यते, स यावन्न प्रतिपाद्यपुरुषं प्रतिः साध्यते, न तावत् दृष्टान्ततामासादयतीति
For Private and Personal Use Only