________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः]
विमानस्थानम्।
१५७६ अथ हेतुः। हेतुर्नामोपलब्धिकारणं, तत्प्रत्यक्षमनुमानम् ऐतिह्यमौपम्यमित्येभिहेतुभिर्यदुपलभ्यते तत् तत्त्वम् ॥ २८॥ साधम्म्यण पुरुषानित्यत्वस्य साधकमैन्द्रियकत्वमिति। कथं साध्यस्य दृष्टान्तसाधयेमित्यत आह-उपनय इत्यादि। यथा घट ऐन्द्रियकः स चानित्यस्तथा चायं पुरुष इति। दृष्टान्तापेक्षस्तथेत्युपसंहारः पुरुषानित्यवस्योपनयः। ततः किमित्यत आह-निगमनमिति। किं निगमनमित्यत आह-तस्मादनित्यः पुरुष इति निगमनम्। तस्मादिति हेखपदेशात् ऐन्द्रियकलादिति हेतोरनेन कारणेनैवमिति यथा घट इति दृष्टान्तेन यथा घट ऐन्द्रियकः स चानित्यस्तथा पुरुष ऐन्द्रियक इत्येवमपदेशात् तस्या एव प्रतिशाया अनित्यस्य पुरुषस्य पुनरुक्तिरिति। इति दृष्टान्ते साध्यसाधम्योपदर्शनप्रतिष्ठापना। साध्यवैधम्योपदर्शनप्रतिष्ठापना तु दयते। अनित्यः पुरुष ऐन्द्रियकखात् यथा परमाणुरनै न्द्रियकः स च नित्यः ; यथा च परमाणुरन. न्द्रियकः स च नित्यो, न तथा पुरुषस्तस्मादनित्यः पुरुष इति । तहि तत्रकत्तः किं न्यूनतेति नाशङ्काम् । दृष्टान्तो हि द्विविधः साध्यसाधर्म्यवैधाभ्यां तद्धर्मभाववान्। इति वक्ष्यते ॥२७॥
गङ्गाधरः-ननु हेतुदृष्टान्तोपनयनिगमनस्तस्या एव प्रतिक्षायाः स्थापना स्थापनेति यदुक्तम्, तत्र को हेतुः को वा दृष्टान्तः क उपनयः किं निगमनम् इत्यतोऽभिहितं हेतुदृष्टान्त उपनयो निगमनमिति यत् तत् क्रमेणाहअथ हेतुरिति । अत्र स्थापनायां हेतुः। हेतुर्नामोपलब्धिकारणमिति प्रतिज्ञाया उपलब्धिकारणं हेतुर्नामोच्यते न तूत्पत्तिकारणम्। किं किं पुनरुपलब्धिकारणमित्यत आह-तत्प्रत्यक्षमित्यादि। अनुमाने तर्कार्थापत्तिसम्भवाभावानामन्तर्भावः कृतः। ऐतिहा लोके वेदे च पारम्पर्योपदेशः। औपम्यम् उपमा। प्रतिस्थापनायामुपनय-रूपावयव-विशेषत्वेनोपलब्धि-हेतुलादिह वादपकरणे पृथगुक्तम्। ननु किमेषामुपलब्धिकारणखमिति तदाहएभिहेतुभिर्यदुपलभ्यते तत् तत्त्वमिति। यदिति उपलब्धिक्रियाविशेषणम् । वाच्यम्। 'प्रतिष्ठापना' पदगतस्य प्रति'शब्दस्यार्थ ब्याकरोति-विपरीतार्थस्थापनेति 'प्रति'शब्दोऽयं विपरीतार्थ इत्यर्थः । इयञ्च प्रतिष्ठापना आन्वीक्षिक्या प्रकरणसमार्थ हेतुदूषणम् ॥ २४-२७ ॥
चक्रपाणिः-- हेतुश्चाविनामावलिङ्गवचनं यद्यपि तथापीह लिङ्गप्रग्राहकाणि प्रत्यक्षादिप्रमाणान्येव यथोक्तहेतुमूलत्वेन 'हेतु'शब्देनाहेति बोदव्यम्, अन्यथा पुनः प्रत्यक्षाघभिधानं पुनरुकं
For Private and Personal Use Only