________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७८
चरक-संहिता। रोगभिषजितीयं विमानम् अथ प्रतिष्ठापना। प्रतिष्ठापना नाम तस्या एव प्रतिज्ञायाः प्रति विपरीतार्थस्थापना। यथा-अनित्यः पुरुष इति विपरीतार्थप्रतिज्ञा, हेतुरैन्द्रियकत्वादिति । दृष्टान्तो यथा—घट इति, उपनयो यथा-घट ऐन्द्रियकः स चानित्यस्तथा चायमिति, निगमनं तस्मादनित्य इति ॥ २७॥ तथा पुरुषोऽकृतक इत्युपसंहारः। ततः किमित्यत आह-निगमनमिति । तत्र निगमनं हेतोरपदेशेनानेन कारणेनैवमित्येवमपदेशेन प्रतिशायाः पुनरुक्तिस्तस्मानित्य इति। तस्मादकृतकखदेखाकाशदृष्टान्ततदुपनया इति समुदायात् कारणानित्यः पुरुष इति स्थापना दृष्टान्तसाधम्म्योपदर्शना। दृष्टान्तवैधम्म्योपदर्शनस्थापना तु प्रदश्यते। नित्यः पुरुषोऽकृतकखाद्, यथा घटः सकृतकोऽनित्यः इति दृष्टान्तवैधयेणाकृतकसमिति हेतुः। तद्घटदृष्टान्तापेक्ष उपसंहारस्तूपनय इह । यथा घटः कृतकः स चानित्यो न तथा पुरुषः कृतकः तस्मानित्यः पुरुष इति निगमनं हेलपदेशात् प्रतिक्षायाः पुनरुक्तिरिति। इति स्थापना दर्शिता ॥२६॥
गङ्गाधरः-अथ प्रतिष्ठापनेति यदुक्तं तद् दय॑ते—अथ प्रतिष्ठापनेति । एवंवादिना प्रतिज्ञास्थापनायाः कृताया अनन्तरं प्रतिवादिनः प्रतिष्ठापना कार्या। का पुनः प्रतिष्ठापनेत्यत आह–प्रतिष्ठापना नामेत्यादि। तस्याः पूर्वकृताया एव वादिनः प्रतिशायाः प्रतीति विपरीतार्थस्य प्रतिवादिना स्थापना प्रतिष्ठापना नामोच्यते। सापि पूर्ववद द्विधा । तदुदाहरति-यथेत्यादि । अनित्यः पुरुष इति वादिकृताया नित्यः पुरुष इति प्रतिज्ञाया विपरीतार्थोऽनित्यः पुरुष इति प्रतिज्ञा प्रतिवादिनः। तस्याः स्थापना यथा हेखादिभिः क्रियते तदाह-हेतुरैन्द्रियकवादिति। ऐन्द्रियकखमिन्द्रियग्राह्यत्वमिति हेतुदृष्टान्तसाधात् । प्रत्यक्षः पुरुषानित्यत्वसाधकः। कः पुनरिह तथाविधो दृष्टान्त इत्यत आह-दृष्टान्त इति। यथा घट इति। अनित्यपुरुषस्य साध्यस्य साधात् तदनित्यत्वधर्मभावी दृष्टान्तो घटश्चेन्द्रियक इत्युदाहरणकरोति, सा विह स्थाप्यत्वेनैव लब्धेति न स्थापनायामिहोदाहृता। 'प्रतिष्ठापना'पदं प्रथम सम्प्रत्यक्सरप्राप्त्या प्रतिष्ठापना इति दर्शयति, द्वितीयन्तु प्रतिष्ठापना नामेति तस्या एवं इत्यादिना वक्ष्यमाणस्य लक्षणस्योपदर्शनार्थम् । एवं स्थापना नामेत्यादावपि पुनरुक्तस्य प्रयोजनं
For Private and Personal Use Only