________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७७
८म अध्यायः ) .. विमानस्थानम्। स्थापना, किं ह्यप्रतिज्ञातं स्थापयिष्यति ? यथा-नित्यः पुरुष इति प्रतिज्ञा, हेतुः-अकृतकत्वादिति । दृष्टान्तो यथाकाशमिति। उपनयो यथा चाकुतकमाकाशं तथा पुरुष इति; निगमनं तस्मानित्य इति ॥ २६ ॥ स्थापना स्थिरीकरणं स्थापना नामहोच्यते। सा द्विधा, दृष्टान्तसाधम्र्येण हेतुना वैधम्र्येण च हेतुना। तत्र तस्या एवं पूर्वकृतायाः प्रतिज्ञायाः प्रज्ञापनेन खलपलब्धिकारणेन प्रत्यक्ष्यानुमान तिह्यौपम्यान्यतमेन दृष्टान्तसामान्यात् साधयित्वा तत्प्रतिज्ञातार्थसामान्याच दृष्टान्तमुदाहृत्य तदृष्टान्तापेक्षेण तथेत्युपसंहारेणोपनीय हेलपदेशात् तत्प्रतिज्ञायाः पुनरुक्तिकरणं दृष्टान्तसाधम्म्योपदर्शनं स्थापना। एवं तस्या एव च प्रतिज्ञायाः प्रज्ञापनेनोपलब्धिकारणेन प्रत्यक्षानुमानै तिह्यौपम्यान्यतमेन दृष्टान्तविधर्मणा साधयित्वा साध्यवैधयेण दृष्टान्तमुदाहृत्य तददृष्टान्तापेक्षेण साध्यस्य न तथेत्युपसंहारेणोपनीयहेखपदेशात् तस्या एव प्रतिक्षायाः पुनरुक्तिकरणं दृष्टान्तवैधम्म्योपदर्शनं स्थापना। कस्मादेवं स्थापयेदित्यत आह-पूर्व हीत्यादि। हि यस्माल्लोके पूर्व प्रतिज्ञा क्रियते पश्चात् तस्याः प्रतिज्ञायाः स्थापना क्रियते, अन्यथा प्रतिज्ञाभ्रशेन निग्रहस्थाने पतेत् । तर्हि प्रतिज्ञां कृवैव स्थापयेत् । न चेत् स्थापयितुं शक्नोति निग्रहस्थाने च पतेदित्यत आह-किं हीत्यादि। हि यस्मात् । किमप्रतिज्ञातं स्थापयिष्यतीति परन्तु प्रतिज्ञातमेवार्थ स्थापयतीति। तत् स्थापनां दर्शयतियथेत्यादि। नित्यः पुरुष इति वादिनः प्रतिज्ञा। तत्र हेतुरकृतकलात् । अकृतकवं पुरुषस्य मातापितृकृतत्वेन दृष्टत्वेऽप्यैतिाप्रमाणेन प्रज्ञापितम् । ग एष एष पुरुषो देवनरादियोनिषु जायते स न केनापि कृत इत्याप्ता उपदिशन्ति। एष हेतुईष्टान्तसाधात् पुरुषनित्यवसाधकः। कः पुनरिह दृष्टान्त इत्यत आह - दृष्टान्त इत्यादि। यथाकाशमिति। आकाशसमानधर्मवत्त्वेन पुरुषस्य नित्यत्वसाधकोऽकृतकसमिति हेतुः। इति दृष्टान्तसाधादकृतकत्वेन हेतुना पुरुषस्य नित्यत्वं साधयित्वाकाशेन दृष्टान्तेन उदाहृत्य तदुपनयति-तत्रोपनय इति। दृष्टान्तापेक्षं साध्यसाधयेयुक्त दृष्टान्ते तदनुसारेण तथेत्युपप्तंहारो यथा। यथा चाकृतकमाकाशं नित्यं , हेत्वादिभिश्चतुर्भिः क्रियते, प्रतिज्ञापि परं प्रति स्थापना भवति । यतः पञ्चावयवमेवानुमान
For Private and Personal Use Only