SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम्। १५७५ अथ प्रतिज्ञा। प्रतिज्ञा नाम साध्यवचनं, यथा-नित्यः पुरुष इति ॥ २५ ॥ मेलनं तु समवायः करोतीति सामान्यमेकखकरमित्युक्तम्। तत्रैकत्वमपृथक्त्वं, पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनकता न चकता। इति। तथा च समवायो नित्यश्चानित्यश्च। नित्ये द्रव्ये भूम्यादौ भूत गुणस्य समवायो नित्यः, द्रव्यारब्धद्रव्ये खनित्यो देवनरादो। तत्र समानानेकेषु सत्ता सामान्यं यथा गोखादिकं तत्तदेकेकेषु सत्ता जन्म सत्ता विशेषः। तत्राकृतिग्रहणा सत्ता जातिः । तत्तदेकै कस्मिन जन्म । तदुक्तं-जातिः सामान्यजन्मनोरिति । अनाकृतिग्रहणा तु सत्ता न जातिसंशया व्यवहियते, सत्तैवोच्यते सामान्यविशेषरूपेति तत्त्वम् ॥२४॥ ___ गङ्गाधरः-इति वादेन वाद्यानुक्त्या यादः कर्त्तव्यस्तान वक्त प्रथम प्रतिशामाह--अथ प्रतिज्ञ ति। वादे कत्तव्ये प्रथमं प्रतिज्ञायते। -सा प्रतिज्ञाऽभिधीयते। प्रतिज्ञा नाम साध्यवचन मिति। वादिनः प्रज्ञापनीयेन धर्मेण विशिष्टस्य धर्मिणः साध्यस्य परिग्रहवचनं साध्यनिर्देशः प्रतिज्ञा नामोच्यते । गौतमेनाप्युक्तम्। साध्यनिर्देशः प्रतिज्ञा इति । वात्स्यायनेन व्याख्यातमिदम् । प्रज्ञापनीयन धर्मेण धम्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः। अनित्यः शब्द इति। स्वयञ्चोदाहरति। यथा नित्यः पुरुष इति। अत्र नित्यत्वेन प्रज्ञापनीयन धर्मेण विशिष्टस्य धम्मिण आत्मनः परिग्रहोऽभ्युपगम्य व्यवस्थोक्तिः प्रतिज्ञा। न च निगमनं साध्यवचनम्। यतो हेवपदेशात् प्रतिज्ञायाः पुनवचनं निगमनम्। प्रथमं साध्यानतं प्रतिशे ति। भ्रान्तास्न व्याचक्षतेपक्षतावच्छेदकधर्म विशिष्ट पक्षे साध्यतावच्छेदकधम्पविशिष्टस्य वैशिष्ट्यबोधकः शब्दः प्रतिज्ञ ति। अत्र निगमनस्य प्रतिज्ञालप्रसङ्गवारणाय साध्यांशे साध्यतावच्छेदकातिरिक्तप्रकारकसं वक्तव्यम् । तेन साध्यतावच्छेदकप्रकारताविलक्षणप्रकारताशून्यसाध्यनिर्देशः प्रतिज्ञा। इति पर्यवसितम्। तेन पुरुषः प्रमेयवानित्यादौ पुरुष साध्यस्य प्रमेयस्य द्रव्यगुणादरवच्छेदकद्रव्यखगुणवादिप्रकारतातो विलक्षणनीलादिप्रकारता शून्यवेन निर्देशान्नाप्रसिद्धिः । उदासीनवाक्यस्य प्रतिज्ञाखवारणाय न्यायान्तगतले सतीति विशेषणीयम् । न्यायवन्तु पञ्चावयवाक्यात्मकतम् । तथा च । न्यायान्तगतले सति प्रकृतपक्षतावच्छेदकावच्छिन्न-पक्षक-प्रकृत-साध्यतावच्छेदकावच्छिन्न-साध्यविधेयता For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy