SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५७४ चरक-संहिता। रोगभिपग्जितीय विमानम् द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरं न विजातीयम् । कम्मे तु न कर्मासाध्यं विद्यते। कचित् सजानीयं क्वचिद्विजातीयं स्वविरोधि कर्म यदारभते तत्कारणभूतक प्रकृतिकमेव कार्य्यभूतं कर्मा स्यात् । तत्र प्रकृतिभूतं करूंव समवेत्य कार्यभूतकर्मतया निष्पद्यते तथा प्रकृतिभूतद्रव्यस्था गुणाश्च प्रकृतिभूताः समवेत्य कार्यभूतस जातीयाणान्तररूपेण निष्पयन्त इति कथमसमवायिकारणे गुणकरगणी भवत इत्यतस्तदयौक्तिकमनार्षञ्चासाधु इति । सामान्यविशेषौ च पूर्वमुक्तौ। सर्वदा सर्वभावाणां सामान्यं वृद्धिकारणम्। हासहे विशेषश्च प्रत्तिरुभयस्य तु। सामान्योकलकरं विशेषश्च पृथक्वकृत । तुल्यार्थता हि सामान्यं विशेपस् विपय्येय इनि। परस्परतुल्यार्थता सामान्यं नछिपाययः परस्परमतुल्यार्थता विशेष इति सामान्यविशेपो परस्परबुद्ध पौ। सामान्य बुद्धापेक्षो विशेषो विशेषबुद्धापेक्ष्यं सामान्यम् । तत्र द्रव्यत्वं गुणवं कावञ्च सामान्यश्च विशेषश्चान्यत्रान्त्येभ्यो विशेपेभ्य इति। कार्येषु च द्रव्यंषु द्रव्यारब्धेषु द्रव्यश्च सामान्यं गुणश्च सामान्यं की च सामान्य विशेषश्च द्रव्यं गुणश्च कर्मा चेति। सत्ता चास्ति द्रव्यगुणकम्प्रेसु सामान्यञ्च विशेपश्च। सदिति यतः सा सत्ता द्रव्यगुणकम्मसु न समवाये। सत्ता हि भावो भावानामनुत्तेरेव हेतुखात् । भावानाम् आरम्भकद्रव्यसंयोगे यावदारम्भकद्रव्यगुणकर्मणां कार्यरूपेण परिणमतां सर्वेषां मेलनेनै कसकरोऽपृथग्भावः समवायः खल भावानां भावः सत्ता ततो ह्यनुवर्तते काय्यभूतो भावः । यावन्तं कालं स च समवायो वर्त्तते, तावन्तं कालमनुत्तरं कालं द्रव्यं गुणः कर्म च वर्तते। समवायस्य तु वर्त्तनं यत् कार्ये तदपि खरूपणैव न तु समवायेनेति समवायस्य सत्ता नास्ति। स्वयं हि सत्ता तस्मात् सामान्यविशेषौ न द्रव्यगुणकर्मसमवायेभ्यो•ऽतिरिक्तौ। यैस्वनृपिभिरतिरिक्तो सामान्यविशेषावुच्येते कथं तैव्यगुणकर्मस्वेव. सत्तास्ति न समवायेऽस्तीत्युच्यते। सदिति यतः सा सत्तेति चेत् तदा समवायोऽप्यस्नीति सदिति कुतश्चिदपि कारणाद्भवति सैव समवायस्यापि सत्ता सम्भवति । कथं द्रव्यगुणकर्मस्वेव सत्ता न समवायेऽस्तीति वक्तुमर्हन्ति । तस्मात् समवायः सत्ताद्रव्यगुणकर्मसु न समवाये, समवाये समवायाभावात् । इति । समवायस्नूक्तः समवायोऽपृथग्भाव इति । द्रव्यगुणकम्त्रणामारम्भकाणामपृथक्त्वं समवायस्तदपृथक्त्वकृच्च सामान्यं पृथक्त्वकृत् तु विशेषः। द्रव्यसामान्यं गुणसामान्यं कम्प्रेसामान्यश्च तेषां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy