________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ]
विमानस्थानम् ।
१५७३
व्यादिषु पूर्व गुरुत्वादयो विंशतिगुणा अनभिव्यक्ताः पञ्चभूतस्थाः कार्यकाले संयोगात् तेभ्योऽभिव्यज्यन्ते। तद्गुणाश्रयः सन् रूपरसादिन कार्य समवायी भवति सयाविशेषपरिमाणविशेषपृथक्लाश्रयः संस्तु कार्य समवायी स्यादिति शापनार्थ निश्चेष्ट इत्युक्तं न निर्गुण इत्युक्तम्। कर्माणि च पृथिव्यादिष्ववक्षेपणोत्क्षेपणप्रसारणादीनि तत्कार्यारम्भे पुनःपुनः संयोगविभागे नवानां द्रव्याणां कृखा तानि द्रव्याणि तांश्च गुणान् परिणमय्य परिणम्यमानान्येकीभूय स्वस्वविरोधीनि कर्माणि भूत्वा तत्र तत्र कम्मणि समवयन्तीति विकृतिभूतकाश्रया कर्त्तव्यस्य क्रिया तषां कर्मणां कर्म यतोऽन्यत् कर्म कर्त्तव्यस्य क्रिया नापेक्षते स्वप्रकृतिकर्मभ्य एव जायते क्रियाहेतुकर्म कर्मवान तु तदा गुणवत्तया जायते। एकखपृथक्वपरिमाणगुणाः प्रकृतिभूता एव सर्वत्र वर्तन्ते न कार्यकाले विक्रियमाणाः कम्मैग्याश्रितास्तस्मान द्रव्यम् । न च गुणः सचेष्टवादिति। एतदभिप्रायेण कणादनाप्युक्तं वैशेषिकशास्त्रे। क्रियागुणवत्समवायकारणमिति द्रव्यलक्षणम् । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षो गुण इति। इह समवायिकारणमित्यनुवर्तते। उभयत्र गुणशब्देन काय्येकाले जायमानगुणो विवक्षित इति शापनार्थ पुनरुक्तं गुणोऽपि विभाव्यते गुणेनापीति। तेन षड़ रसास्त्रीणि रूपाणि पश्च कर्माणि। दुग्धादिक्षोर्मधरोऽधिकः। आम्रस्य रूपात् पृथग्रसः । इत्येवमादि। कर्म पुनद्रव्याणां संयोगविभागेषु कार्यकाले कान्तरमनपेक्ष्यैव कारणं सद यद्व्याश्रयि चागुणवत्समवायिकारणं तत् कर्म । तथा चोत्क्षेपणादीनि पञ्चकर्माणि तेजःप्रभृतिद्रव्याश्रयीणि। न च गुरुखादिगुणवन्ति न भूमिकायें समवायीनि भवन्ति सङ्खापरिमाणपृथक्लानि चाश्रित्यैवेति। त्रितो विरेचनात् कर्मणो राजवृक्षस्य विरेचनं कर्म न्यूनमिति मृदुविरेचनमुच्यते राजक्षस्य मृदुलात्। स्नुहोक्षीरस्य विरेचनमधिकमिति तीक्ष्णं. विरेचनमुच्यते स्नुह्यास्तीक्ष्णवात्। एवं त्रितो विरेचनात् पृथक् स्नुहीक्षीरविरेचनमिति। एतदर्थकं कर्मलक्षणमिह तन्त्रे पूर्वमुक्तम्। संयोगे च विभागे च कारणं द्रव्यमाश्रितम् । कत्र्तव्यस्य क्रिया कम्मे कम्मे नान्यदपेक्षते॥ इति । कर्त्तव्यस्य काय्र्यस्य द्रव्यमाश्रितं खल्वन्यत् कर्म नापेक्ष्य कार्यारम्भे द्रव्याणां संयोगे च विभागे च कारणं या क्रिया समवायिकारणं भवति तत् कर्म। इति। भ्रान्तास्वाहुगुणकर्मणी न समवायिकारणे भवतस्ते चासमवायिकारणे इति तदनार्षमयौक्तिकञ्च। द्रव्याणि हि सजातीयं
For Private and Personal Use Only